Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat

View full book text
Previous | Next

Page 493
________________ श्राद्धविधि षष्ठः प्रकरणम् प्रकाश: पुव्वुन्नय अत्थहरं, जमुन्नयं मंदिरं धणसमिद्धं । अवरुन्नय विद्धिकरं, उतरुन्नय होइ उव्वसिअं ॥ वलयागारं कूणेहिं, संकुलं अहव एगदुतिकूणं । दाहिणवामयदीहं, न वासियव्वेरिसं गेहं ॥ सयमेव जे किवाडा, पिहिअंति अ उग्घडंति ते असुहा । चित्तकलसाइसोहा, सविसेसा मूलवारिसुहा ॥ जोईणि नट्टारंभं भारहरामायणं च निवजुद्धं । रिसिचरिअदेवचरिअं, इअचित्तं गेहि न हु जुत्तं ॥ फलिहतरुकुसुमवल्ली सरस्सई नवनिहाणजुअलच्छी । कलसं वद्धावयणं, सुमिणावलिआइ सुहचित्तं ॥ खजूरी दाडिमी रम्भा कर्कन्धू/जपूरिका । उत्पद्यते गृहे यत्र, तन्निकृन्तति मूलतः ॥ लक्ष्मीनाशकरः क्षीरी, कण्टकी शत्रुभीप्रदः । अपत्यनः फली तस्मादेषां काष्ठमपि त्यजेत् ॥ कश्चिदूचे पुरो भागे, वटः श्लाघ्य उदुम्बरः । दक्षिणे पश्चिमेऽश्वत्थो, भागे प्लक्षस्तथोत्तरे ॥ पूर्वस्यां श्रीगृहं कार्यमाग्नेय्यां च महानसम् । शयनं दक्षिणस्यां तु, नैर्ऋत्यामायुधादिकम् ॥ भुजिक्रिया पश्चिमायां, वायव्यां धान्यसङ्ग्रहः । उत्तरस्यां जलस्थानमैशान्यां देवतागृहम् ॥ गृहस्य दक्षिणे वह्नितोयगोऽनिलदीपभूः । वामा प्रत्यग्दिशोर्भुक्तिधान्यार्थारोहदेवभूः ॥ पूर्वादिदिग्विनिर्देशो, गृहद्वारव्यपेक्षया । भास्करोदयदिक्पूर्वा, न विज्ञेया यथा क्षुते ॥ इत्यादि । ४६६

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524