Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat

View full book text
Previous | Next

Page 492
________________ श्राद्धविधिप्रकरणम् मत्यादिन्यायेनैव ग्राह्यं, न तु पराभिभवादिना, तथा सति त्रिवर्गहान्याद्यापत्तेः । एवमिष्टिकाकाष्ठपाषाणादिदलमपि निर्दोषं दृढसारत्वादिगुणसुचितमूल्यादिना ग्राह्यमानाय्यञ्च । तदपि विक्रायकैः स्वयं निष्पादितं, न तु तत्पार्श्वात् स्वकृते कारितं, महारम्भादिदोषापत्तेः । प्रासादादिसक्तं च तन्न ग्राह्यं बहुहान्याद्यापत्तेः । श्रूयते हि द्वौ वणिजौ प्रातिवेश्मिकौ । एकः समृद्धोऽन्यं निःस्वं पदे पदेऽभिभवति । निःस्वोऽन्यथा प्रतिकर्त्तुमशक्तः समृद्धस्य निष्पद्यमानसौधभित्तिमध्ये जिनचैत्यात् पतितमेकमिष्टिकाखण्डं रहश्चिक्षेप । निष्पन्ने च सौधे तेन सम्यक् तत्स्वरूपे प्रोक्तेsपीयन्मात्रस्य को दोष ? इत्यवज्ञया समृद्धस्य स्तोकैरेव दिनैर्वज्राग्नयादिना सर्वस्वं विनष्टम् । उक्तमपि पासायकूववावीमसाणमढरायमंदिराणं च । पाहाणइकट्ठा, सरिसवमित्तावि वज्जिज्जा ॥ पाहाणमयं थंभं, पीढं पट्टं च बारउत्ताइं । एए गेहि विरुद्धा, सुहवहा धम्मठाणेसु ॥ पाहाणमए कट्टं, कट्ठमए पाहणस्स थंभाई । पासाए अ गिहे वा, वज्जेअव्वा पयत्तेणं ॥ हलघाणयसगडाई, अरहट्टजंताणि कंटई तह य । पंचुंबरि खीरतरु एआणं कट्ठ वज्जिज्जा ॥ विज्जउरिकेलिदाडिमजंबीरीदोहलिद्दअंबिलिआ । बब्बूलिबोरिमाई कणयमया तहवि वज्जिज्जा ॥ एआणं जइ अ जडा पाडवसाओ पविस्सई अहवा । छाया वा जम्मि गिहे, कुलनासो हवइ तत्थेव ॥ A A A A A प्रकाश: ४६५

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524