________________
श्राद्धविधिप्रकरणम्
मत्यादिन्यायेनैव ग्राह्यं, न तु पराभिभवादिना, तथा सति त्रिवर्गहान्याद्यापत्तेः । एवमिष्टिकाकाष्ठपाषाणादिदलमपि निर्दोषं दृढसारत्वादिगुणसुचितमूल्यादिना ग्राह्यमानाय्यञ्च । तदपि विक्रायकैः स्वयं निष्पादितं, न तु तत्पार्श्वात् स्वकृते कारितं, महारम्भादिदोषापत्तेः । प्रासादादिसक्तं च तन्न ग्राह्यं बहुहान्याद्यापत्तेः । श्रूयते हि
द्वौ वणिजौ प्रातिवेश्मिकौ । एकः समृद्धोऽन्यं निःस्वं पदे पदेऽभिभवति । निःस्वोऽन्यथा प्रतिकर्त्तुमशक्तः समृद्धस्य निष्पद्यमानसौधभित्तिमध्ये जिनचैत्यात् पतितमेकमिष्टिकाखण्डं रहश्चिक्षेप । निष्पन्ने च सौधे तेन सम्यक् तत्स्वरूपे प्रोक्तेsपीयन्मात्रस्य को दोष ? इत्यवज्ञया समृद्धस्य स्तोकैरेव दिनैर्वज्राग्नयादिना सर्वस्वं विनष्टम् । उक्तमपि
पासायकूववावीमसाणमढरायमंदिराणं च । पाहाणइकट्ठा, सरिसवमित्तावि वज्जिज्जा ॥ पाहाणमयं थंभं, पीढं पट्टं च बारउत्ताइं । एए गेहि विरुद्धा, सुहवहा धम्मठाणेसु ॥
पाहाणमए कट्टं, कट्ठमए पाहणस्स थंभाई । पासाए अ गिहे वा, वज्जेअव्वा पयत्तेणं ॥ हलघाणयसगडाई, अरहट्टजंताणि कंटई तह य । पंचुंबरि खीरतरु एआणं कट्ठ वज्जिज्जा ॥ विज्जउरिकेलिदाडिमजंबीरीदोहलिद्दअंबिलिआ । बब्बूलिबोरिमाई कणयमया तहवि वज्जिज्जा ॥ एआणं जइ अ जडा पाडवसाओ पविस्सई अहवा । छाया वा जम्मि गिहे, कुलनासो हवइ तत्थेव ॥
A A A A A
प्रकाश:
४६५