________________
श्राद्धविधि
षष्ठः
प्रकरणम्
प्रकाश:
पुव्वुन्नय अत्थहरं, जमुन्नयं मंदिरं धणसमिद्धं । अवरुन्नय विद्धिकरं, उतरुन्नय होइ उव्वसिअं ॥ वलयागारं कूणेहिं, संकुलं अहव एगदुतिकूणं । दाहिणवामयदीहं, न वासियव्वेरिसं गेहं ॥ सयमेव जे किवाडा, पिहिअंति अ उग्घडंति ते असुहा । चित्तकलसाइसोहा, सविसेसा मूलवारिसुहा ॥ जोईणि नट्टारंभं भारहरामायणं च निवजुद्धं । रिसिचरिअदेवचरिअं, इअचित्तं गेहि न हु जुत्तं ॥ फलिहतरुकुसुमवल्ली सरस्सई नवनिहाणजुअलच्छी । कलसं वद्धावयणं, सुमिणावलिआइ सुहचित्तं ॥ खजूरी दाडिमी रम्भा कर्कन्धू/जपूरिका । उत्पद्यते गृहे यत्र, तन्निकृन्तति मूलतः ॥ लक्ष्मीनाशकरः क्षीरी, कण्टकी शत्रुभीप्रदः । अपत्यनः फली तस्मादेषां काष्ठमपि त्यजेत् ॥ कश्चिदूचे पुरो भागे, वटः श्लाघ्य उदुम्बरः । दक्षिणे पश्चिमेऽश्वत्थो, भागे प्लक्षस्तथोत्तरे ॥ पूर्वस्यां श्रीगृहं कार्यमाग्नेय्यां च महानसम् । शयनं दक्षिणस्यां तु, नैर्ऋत्यामायुधादिकम् ॥ भुजिक्रिया पश्चिमायां, वायव्यां धान्यसङ्ग्रहः । उत्तरस्यां जलस्थानमैशान्यां देवतागृहम् ॥ गृहस्य दक्षिणे वह्नितोयगोऽनिलदीपभूः । वामा प्रत्यग्दिशोर्भुक्तिधान्यार्थारोहदेवभूः ॥ पूर्वादिदिग्विनिर्देशो, गृहद्वारव्यपेक्षया । भास्करोदयदिक्पूर्वा, न विज्ञेया यथा क्षुते ॥ इत्यादि ।
४६६