Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat

View full book text
Previous | Next

Page 489
________________ श्राद्धविधि प्रकरणम् स्वचक्रपरचक्रविरोधदुर्भिक्षमारीतिप्रजाविरोधवास्तुक्षयादिनाऽस्वस्थीभूतं द्रुतमेव त्याज्यम्, अन्यथा त्रिवर्गहान्याद्यापत्तेः । यथा मुद्गलैर्भङ्गे भयोत्पत्तौ यैढिल्ली त्यक्ता, ते गुर्जरत्रादावागतास्त्रिवर्गपुष्ट्या भवद्वयं साफल्यमकार्षुः । यैस्तु न त्यक्ता ते बन्दपतनादिना भवद्वयमप्यहार्षुः । वास्तुक्षीणत्वादिना स्थानत्यागे तु क्षितिप्रतिष्ठित - वनकपुर - ऋषभपुरादिदृष्टान्तः । तथा चार्षम्खिड्वणउसभकुसग्गं रायगिहं चंपपाडलीपुत्तं । इति । वासस्थानं च गृहमप्युच्यते । तच्च सुप्रातिवेश्मिकेऽनतिप्रकटेऽनतिगुप्ते च सुस्थाने विधिनिष्पन्नमितद्वारत्वादिगुणं त्रिवर्गसिद्धिहेतुतया योग्यम् । दुष्प्रातिवेश्मिकाञ्चैवमागमादौ निषिद्धाः खरीअतिरिक्खजोणीतालायरसमणमाहणसुसाणा । वग्गुरिअवाहगुम्मिअहलिएसपुलिंदमच्छंधा ॥ खरिआत्ति द्व्यक्षरिका वेश्या, श्रमणाः शाक्त्याद्याः, स्मशानं, गुल्मिका गुप्तिपालाः, मत्स्यबन्धा मात्सिकाः । जूआरचोरनडनट्टभट्टवेसा कुकम्मकारीणं । संवासं वज्जिज्जा, घरहट्टाणं च मित्तीअ ॥ तथा दुःखं देवकुलासन्ने, गृहे हानिश्चतुष्पथे । धूर्त्तामात्यगृहाभ्यासे, स्यातां सुतधनक्षयौ ॥ मूर्खाऽधार्मिकपाखण्डिपतितस्तेनरोगिणाम् । क्रोधनान्त्यजदृप्तानां, गुरुतल्पगवैरिणाम् ॥ स्वामिवञ्चकलुब्धानामृषिस्त्रीबालघातिनाम् । इच्छन्नात्महितं धीमान् प्रातिवेश्मिकतां त्यजेत् ॥ s s s s s s प्रकाशः ४६२

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524