Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat

View full book text
Previous | Next

Page 482
________________ पञ्चमः श्राद्धविधिप्रकरणम् प्रकाशः आलोचक्रस्य सम्यग् विशुद्धिकारक इत्यर्थः । आलोचितं योऽन्यस्मै न वक्ति सोऽपरिस्रावी । निर्यापयति निर्वाहयतीति निर्यापः, यो यथा समर्थस्तस्य तथा प्रायश्चित्तं दत्त इत्यर्थः । सम्यगनालोचकस्य सम्यक् प्रायश्चित्ताऽकर्तुश्च भवद्वयेऽप्यपायदर्शी । एतेऽष्टौ गुरोर्गुणाः । आलोयणापरिणओ, सम्मं संपट्ठिओ गुरुसगासे । जइ अंतरावि कालं, करिज्ज आराहओ तहवि ॥ आयरिआइ सगच्छे, संभोइअइअरगीअपासत्थे । सारूवीपच्छाकहदेवयपडिमा अरिहसिद्धे ॥ साधुना श्राद्धेन वा नियमतः प्रथमं स्वगच्छे आचार्यस्य, तदयोगे उपाध्यायस्य, एवं प्रवर्तिनः स्थविरस्य गणावच्छेदिनो वाऽलोचनीयम् । स्वगच्छे पञ्चानामप्यभावे सांभोगिके एकसामाचारिके गच्छान्तरे आचार्यादिक्रमेणालोच्यम् । तेषामप्यभाव इतरस्मिन्नसांभोगिके संविग्ने गच्छे स एव क्रमः । तेषामप्यभावे गीतार्थपार्श्वस्थस्य । तस्याप्यभावे गीतार्थसारूपिकस्य । तस्याप्यभावे गीतार्थपश्चात्कृतस्यालोचयितव्यम् । सारूपिकः शुक्लाम्बरो मुण्डोऽबद्धकच्छो रजोहरणरहितो ब्रह्मचर्योऽभार्यो भिक्षाग्राही । सिद्धपुत्रस्तु सशिखः सभार्यश्च । पश्चात्कृतः त्यक्तचारित्रवेषो गृहस्थः । पार्श्वस्थादेरपि गुरुवद्वन्दकप्रदानादिविधिः कार्यो विनयमूलत्वाद्धर्मस्य । यदि तु पार्श्वस्थादिः स्वं गुणहीनं पश्यन् वन्दनकं न कारयति, तदा तस्य निषद्यामारचय्य प्रणाममात्रं कृत्वाऽऽलोचनीयम् । पश्चात्कृतस्य चेत्वरसामायिकारोपणं लिङ्गप्रदानं च कृत्वा यथाविध्यालोच्यम् । पार्श्वस्थादीनामप्यभावे यत्र राजगृहे गुणशिलादावर्हद्गणधराद्यैर्बहुशः प्रायश्चित्तप्रदानं यथा देवतया दृष्टं तत्र तस्याः सम्यग्दृष्टेरष्टमाद्याराधनेन प्रत्यक्षाया | ४५५

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524