________________
पञ्चमः
श्राद्धविधिप्रकरणम्
प्रकाशः
आलोचक्रस्य सम्यग् विशुद्धिकारक इत्यर्थः । आलोचितं योऽन्यस्मै न वक्ति सोऽपरिस्रावी । निर्यापयति निर्वाहयतीति निर्यापः, यो यथा समर्थस्तस्य तथा प्रायश्चित्तं दत्त इत्यर्थः । सम्यगनालोचकस्य सम्यक् प्रायश्चित्ताऽकर्तुश्च भवद्वयेऽप्यपायदर्शी । एतेऽष्टौ गुरोर्गुणाः ।
आलोयणापरिणओ, सम्मं संपट्ठिओ गुरुसगासे । जइ अंतरावि कालं, करिज्ज आराहओ तहवि ॥ आयरिआइ सगच्छे, संभोइअइअरगीअपासत्थे । सारूवीपच्छाकहदेवयपडिमा अरिहसिद्धे ॥
साधुना श्राद्धेन वा नियमतः प्रथमं स्वगच्छे आचार्यस्य, तदयोगे उपाध्यायस्य, एवं प्रवर्तिनः स्थविरस्य गणावच्छेदिनो वाऽलोचनीयम् । स्वगच्छे पञ्चानामप्यभावे सांभोगिके एकसामाचारिके गच्छान्तरे आचार्यादिक्रमेणालोच्यम् । तेषामप्यभाव इतरस्मिन्नसांभोगिके संविग्ने गच्छे स एव क्रमः । तेषामप्यभावे गीतार्थपार्श्वस्थस्य । तस्याप्यभावे गीतार्थसारूपिकस्य । तस्याप्यभावे गीतार्थपश्चात्कृतस्यालोचयितव्यम् । सारूपिकः शुक्लाम्बरो मुण्डोऽबद्धकच्छो रजोहरणरहितो ब्रह्मचर्योऽभार्यो भिक्षाग्राही । सिद्धपुत्रस्तु सशिखः सभार्यश्च । पश्चात्कृतः त्यक्तचारित्रवेषो गृहस्थः । पार्श्वस्थादेरपि गुरुवद्वन्दकप्रदानादिविधिः कार्यो विनयमूलत्वाद्धर्मस्य । यदि तु पार्श्वस्थादिः स्वं गुणहीनं पश्यन् वन्दनकं न कारयति, तदा तस्य निषद्यामारचय्य प्रणाममात्रं कृत्वाऽऽलोचनीयम् । पश्चात्कृतस्य चेत्वरसामायिकारोपणं लिङ्गप्रदानं च कृत्वा यथाविध्यालोच्यम् । पार्श्वस्थादीनामप्यभावे यत्र राजगृहे गुणशिलादावर्हद्गणधराद्यैर्बहुशः प्रायश्चित्तप्रदानं यथा देवतया दृष्टं तत्र तस्याः सम्यग्दृष्टेरष्टमाद्याराधनेन प्रत्यक्षाया
| ४५५