________________
श्राद्धविधि
पञ्चमः
प्रकरणम् |
प्रकाशः
गीतार्थोऽधिगतनिशीथादिश्रुतसूत्रार्थः । कृतोऽभ्यस्तो योगो मनोवाक्कायव्यापारः शुभो विविधतपो वा स यस्याऽस्ति स कृतयोगी, विविधशुभध्यानतपोविशेषैः परिकर्मिताऽऽत्मशरीर इत्यर्थः । चारित्री निरतिचारचारित्रवान् । ग्राहणा बहुयुक्तिभिरालोचनादायकानां विविधप्रायश्चित्तादितपोविधेरङ्गीकारणं तत्र कुशलः । खेदः सम्यक्प्रायश्चित्तविधेः परिश्रमोऽभ्यास इत्यर्थः । तं | जानातीति खेदज्ञः । अविषादी महत्यप्यालोचकस्य दोषे श्रुते न विषादवान् । प्रत्युताऽऽलोचनादायकस्य तत्तन्निदर्शनगर्भवैराग्यवचनैरुत्साहक इत्यर्थः ।
आयारवमाहारवं ववहारुव्वीलए पकुव्वी य । अपरिस्सावी निज्जव अवयदंसी गुरू भणिओ ॥
आचारवान् ज्ञानादिपञ्चप्रकाराचारयुक्, आधारवान् आलोचितापराधानामसामस्त्येन धारणमाधारस्तद्वान्, व्यवहार आगमादिः पञ्चधा । तत्रागमव्यवहारः केवलिमन:पर्यायावधिज्ञानिचतुर्दशदशनवपूर्विषु, श्रुतव्यवहारोऽष्टाघेका वसानपूर्वधरैकादशाङ्गिनिशीथाद्यशेषश्रुतज्ञेषु, आज्ञाव्यवहारो दूरस्थगीतार्थाचार्ययोमिथःसङ्गन्तुमक्षमयोगेंढपदैरालोचनाप्रायश्चित्तयोः प्रदानं, धारणाव्यवहारो गुरुणाऽपराधे यद्यथा प्रायश्चित्तं दत्तं तत्तथैवान्योऽपि दत्त इत्यादि, जीतं श्रुतोक्तापत्तितो हीनमधिकं वा परम्परयाऽऽचीर्णं तेन व्यवहारो जीतव्यवहारः पञ्चमः सम्प्रति मुख्यः । एवं पञ्चविधं व्यवहारं ज्ञात्वा प्रायश्चित्तप्रदाने यः सम्यग् व्यवहरति स व्यवहारवान् । अपव्रीडयति लज्जां मोचयतीत्यपव्रीडकः, आलोचकं लज्जयाऽनालोचयन्तं तथा तथा वैराग्यगर्भ वक्ति, यथा स लज्जा मुक्त्वा सम्यगालोचयतीत्यर्थः । कुर्वेत्यागमप्रसिद्धो धातुर्यस्य विकुर्वणेति प्रयोगः, प्रकुर्वतीत्येवंशीलः प्रकुर्वी,
४५४