Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat
View full book text ________________
पञ्चमः
श्राद्धविधिप्रकरणम्
प्रकाशः
जह सुकुसलो वि विज्जो, अन्नस्स कहेइ अप्पणो वाहिं । एवं जाणंतस्स वि, सल्लुद्धरणं परसगासे ॥
तथाज्ञा तीर्थकृतामाराधिता स्यात् । निःशल्यत्वं स्पष्टम् । उक्तं चैकोनत्रिंशदुत्तराध्ययने-आलोअणयाएणं भंते ! जीवे किं जणयइ ? गोयमा ! आलोअणयाएणं मायानिआणमिच्छादंसणसल्लाणं अणंतसंसारवद्धणाणं उद्धरणं करेइ, उज्जुभावं च णं जणयइ । उज्जुभावं पडिवन्ने अ णं जीवे अमाई इत्थीवेअं नपुंसगवेअं च न बंधइ, पुव्वबद्धं च णं निज्जरेइ त्ति । एते शोधेरालोचनाया गुणाः ॥११॥ ___ इति श्राद्धजितकल्पात्तवृत्तेश्च किञ्चिदुद्धृत आलोचनाविधिः । तीव्रतराध्यवसायकृतं बृहत्तरमपि निकाचितमपि बालस्त्रीयतिहत्यादेवादिद्रव्यभक्षणराजपत्नीगमनादिकं महापापं सम्यग् विधिवदालोच्य गुरुदत्तं प्रायश्चित्तं विधत्ते, तदा तद्भवेऽपि शुध्यति । कथमन्यथा दृढप्रहारिप्रभृतीनां तद्भवेऽपि सिद्धिरित्यालोचना प्रतिवर्ष प्रतिचातुर्मासकं वा ग्राह्मैव । इति वर्षकृत्यगाथोत्तरार्धार्थः ॥
॥ इति श्रीतपागच्छाधिपश्रीसोमसुन्दरसूरि-श्रीमुनिसुन्दरसूरि-श्रीजयचन्द्रसूरिश्रीभुवनसुन्दरसूरिशिष्य-श्रीरत्नशेखरसूरिविरचितायां श्रीश्राद्धविधिप्रकरणवृत्ती
वर्षकृत्यप्रकाशकः पञ्चमः प्रकाशः ।।
४५९
Loading... Page Navigation 1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524