Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat
View full book text ________________
श्राद्धविधि
पञ्चमः
प्रकरणम्
प्रकाशः
तदवोचाम
उपधानतपो विधिवद्, विधाय धन्यो निधाय निजकण्ठे । द्वेधाऽपि सूत्रमालां, द्वेधाऽपि शिवश्रियं श्रयति ॥ मुक्तिकनीवरमाला, सुकृतजलाकर्षणे घटीमाला । साक्षादिव गुणमाला, माला परिधीयते धन्यैः ॥
एवं शुक्लपञ्चम्यादिविविधतपसामपि तत्तदुपवासादिसङ्ख्यनाणकवर्तुलिकानालिकेरमोदकादिनानाविधवस्तुढौकनादिना यथाश्रुतसम्प्रदायमुद्यापनानि विधेयानि ॥९॥
(१०) तथा तीर्थप्रभावनानिमित्तं श्रीगुरुप्रवेशोत्सवप्रभावनादि जघन्यतोऽपि प्रतिवर्षमेकैकवारं कार्यम् । तत्र श्रीगुरुप्रवेशोत्सवः सर्वाङ्गीणप्रौढाडम्बरचतुर्विधश्रीसङ्घसम्मुखगमनश्रीगुर्वादिसङ्घसत्कारादिना यथाशक्ति कार्यः । यतः
अभिगमनवंदणनमंसणेण पडिपुच्छणेण साहूणं । चिरसंचिअं पि कम्मं, खणेण विरलत्तणमुवेइ ॥ साधुपेथडेन तपाश्रीधर्मघोषसूरीणां प्रवेशोत्सवे द्वासप्ततिसहस्रटङ्ककव्ययश्चके । न च संविग्नसाधूनां प्रवेशोत्सवोऽनुचित इति वाच्यं, आगम उपेत्य तत्करणस्य प्रतिपादितत्वात् । तथाहि साधोः प्रतिमाऽधिकारे व्यवहारभाष्ये
तीरिअ-उब्भामनिओअदरिसणं सन्नि साहुमप्पाहे । दंडिअ भोइअ असई, सावगसंघो व सक्कारं ॥ तीरितायां समाप्तायां प्रतिमायाम्, उत्प्राबल्येन भ्रमन्त्युद्धमा भिक्षाचरास्तेषां नियोगो व्यापारो यत्र स उद्भ्रामकनियोगो -
४५१
Loading... Page Navigation 1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524