SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधि पञ्चमः प्रकरणम् प्रकाशः तदवोचाम उपधानतपो विधिवद्, विधाय धन्यो निधाय निजकण्ठे । द्वेधाऽपि सूत्रमालां, द्वेधाऽपि शिवश्रियं श्रयति ॥ मुक्तिकनीवरमाला, सुकृतजलाकर्षणे घटीमाला । साक्षादिव गुणमाला, माला परिधीयते धन्यैः ॥ एवं शुक्लपञ्चम्यादिविविधतपसामपि तत्तदुपवासादिसङ्ख्यनाणकवर्तुलिकानालिकेरमोदकादिनानाविधवस्तुढौकनादिना यथाश्रुतसम्प्रदायमुद्यापनानि विधेयानि ॥९॥ (१०) तथा तीर्थप्रभावनानिमित्तं श्रीगुरुप्रवेशोत्सवप्रभावनादि जघन्यतोऽपि प्रतिवर्षमेकैकवारं कार्यम् । तत्र श्रीगुरुप्रवेशोत्सवः सर्वाङ्गीणप्रौढाडम्बरचतुर्विधश्रीसङ्घसम्मुखगमनश्रीगुर्वादिसङ्घसत्कारादिना यथाशक्ति कार्यः । यतः अभिगमनवंदणनमंसणेण पडिपुच्छणेण साहूणं । चिरसंचिअं पि कम्मं, खणेण विरलत्तणमुवेइ ॥ साधुपेथडेन तपाश्रीधर्मघोषसूरीणां प्रवेशोत्सवे द्वासप्ततिसहस्रटङ्ककव्ययश्चके । न च संविग्नसाधूनां प्रवेशोत्सवोऽनुचित इति वाच्यं, आगम उपेत्य तत्करणस्य प्रतिपादितत्वात् । तथाहि साधोः प्रतिमाऽधिकारे व्यवहारभाष्ये तीरिअ-उब्भामनिओअदरिसणं सन्नि साहुमप्पाहे । दंडिअ भोइअ असई, सावगसंघो व सक्कारं ॥ तीरितायां समाप्तायां प्रतिमायाम्, उत्प्राबल्येन भ्रमन्त्युद्धमा भिक्षाचरास्तेषां नियोगो व्यापारो यत्र स उद्भ्रामकनियोगो - ४५१
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy