________________
पञ्चमः
श्राद्धविधिप्रकरणम् |
प्रकाशः
ग्रामस्तत्र दर्शनमात्मनः प्रकटनं करोति । ततः संयतं साधु सजिनं वा श्रावकं 'अप्पाहे त्ति' सन्देशयति । ततो दण्डिको राजा भोजिको ग्रामाध्यक्षस्तदभावे श्रावकवर्गः सङ्घः साधुसाध्वीवर्गः सत्कारं करोति । अयं भावः-प्रतिमायां समाप्तायां यस्मिन् प्रत्यासन्नग्रामे बहवो भिक्षाचराः साधवश्च समागच्छन्ति, तत्राऽऽगत्यात्मानं दर्शयति, दर्शयंश्च यं साधुं श्रावकं वा पश्यति, तस्य सन्देशं कथयति, यथा समापिता मया प्रतिमा ततोऽहमागत इति, तत्राचार्या राज्ञो निवेदयन्ति, यथामुको महातपस्वी समाप्ततपःकर्मातिमहता सत्कारेण गच्छे प्रवेशनीय इति । ततः स राजा तदभावेऽधिकृतग्रामस्य नायकस्तदभावे समृद्धः श्रावकवर्गस्तदभावे साधुसाध्वीप्रभृतिकः सङ्घो यथाशक्ति सत्कारं करोति । सत्कारो नामोपरि चन्द्रोदयधारण-नान्दीतूर्यास्फालनसुगन्धवासप्रक्षेपादिकः । एवं सत्कार इमे गुणा:
उब्भावणा पवयणे, सद्धाजणणं तहेव बहुमाणो । उहावणा कुतित्थे, जीअं तह तित्थवुड्डी अ॥ प्रवेशसत्कारेण प्रवचनस्योद्भाजनं प्राबल्येन प्रकाशनं भवति । तथाऽन्येषां साधूनां श्रद्धाजननं वयमप्येवं कुर्मो येन महती शासनस्य प्रभावना भवति । तथा श्रावकश्राविकाणामन्येषां च शासनस्योपरि बहुमानो जायते, यथा अहो ! महाप्रतापि पारमेश्वरं शासनं यत्रेदृशा महातपस्विन इति । तथा कुतीर्थानामपभ्राजना हीलना भवति, तत्रेदृशां महासत्त्वानामभावात् । तथा जीतमेतत् कल्प एष यत्समाप्तप्रतिमानुष्ठान: सत्करणीयः । तथा तीर्थवृद्धिश्च प्रवचनस्य ह्यतिशयं वीक्ष्य बहवः संसाराद्विरज्य प्रव्रज्यां प्रतिपद्यन्ते, ततो भवति तीर्थवृद्धिरिति तवृत्तिः ॥
४५२