Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat
View full book text ________________
श्राद्धविधि
पञ्चमः
प्रकरणम्
प्रकाशः
(५) तथा देवद्रव्यवृद्ध्यर्थं प्रतिवर्षं मालोद्घट्टनं कार्यम् । तत्र च ऐन्द्री अन्या वा माला प्रतिवर्ष यथाशक्ति ग्राह्या । | श्रीकुमारपालसङ्के मालोद्घट्टने मन्त्रिवाग्भटादिषु लक्षचतुष्काष्टकादिवादिषु 'महुआ'वासिसौराष्ट्रिकप्राग्वाटहंसराजधारूपुत्रो जगडो मलिनाङ्गवस्त्रः सपादकोटी चक्रे । विस्मयाद्राज्ञा पृष्टः प्राह,
'मत्पित्रा नौयात्रार्जितधनैः सपादकोटिमूल्यमाणिक्यपञ्चकं चक्रे । प्रान्ते चोक्तं श्रीशत्रुञ्जयरैवतदेवपत्तनेषु दैवस्यैकैकं दद्याः, द्वे त्वया स्थाप्ये' इति । तत् त्रयं हेमखचितमृषभनेमिचन्द्रप्रभाणां स कण्ठाभरणीचके ।
श्रीरैवते श्वेताम्बरदिगम्बरसङ्घयोः समं प्राप्तयोस्तीर्थविवादे य इन्द्रमालां परिधत्ते तस्येदं तीर्थमिति वृद्धोक्तौ, साधुपेथडेन षट्पञ्चाशद्घटीस्वर्णेनेन्द्रमाला परिदधे । चतुर्घटीस्वर्णं मार्गणेभ्यो ददे । तीर्थं स्वं चक्रे । एवं परिधापनिका-नव्यधौतिकविचित्रचन्द्रोदया-ऽङ्गरूक्षण-दीपतैलजात्यचन्दनकेसरभोगाद्यपि चैत्योपयोगि प्रतिवर्ष यथाशक्ति मोच्यम् ॥५॥
(६-७) तथा विशिष्टाङ्गी-पत्रभङ्गी-सर्वाङ्गभरण-पुष्पगृह-कदलीगृह-पुत्रिका-जलयन्त्रादिरचना-नानागीतनृत्ताधुत्सवैर्महापूजा रात्रिजागरणं च कार्ये । यथैकेन महेभ्येनाऽब्धियात्रां गच्छता लक्षव्ययेन द्वादशवर्ष्या मनोऽभीष्टलाभहष्टेन तत आगतेन कोटिव्ययेन चैत्ये महापूजादि विदधे ॥६-७॥
(८) तथा श्रुतज्ञानस्य पुस्तकादिस्थस्य कर्पूरादिना पूजामात्रं सर्वदाऽपि सुकरं, प्रशस्तवस्त्रादिभिर्विशेषपूजा तु प्रतिमासं | शुक्लपञ्चम्यां श्रावकस्य कर्तुं युज्यते । तथाप्यशक्तौ जघन्यतोऽपि सा प्रतिवर्षमेकैकवारं कार्या । तद्विस्तरस्तु जन्मकृत्यमध्ये
४४९
Loading... Page Navigation 1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524