SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधि पञ्चमः प्रकरणम् प्रकाशः (५) तथा देवद्रव्यवृद्ध्यर्थं प्रतिवर्षं मालोद्घट्टनं कार्यम् । तत्र च ऐन्द्री अन्या वा माला प्रतिवर्ष यथाशक्ति ग्राह्या । | श्रीकुमारपालसङ्के मालोद्घट्टने मन्त्रिवाग्भटादिषु लक्षचतुष्काष्टकादिवादिषु 'महुआ'वासिसौराष्ट्रिकप्राग्वाटहंसराजधारूपुत्रो जगडो मलिनाङ्गवस्त्रः सपादकोटी चक्रे । विस्मयाद्राज्ञा पृष्टः प्राह, 'मत्पित्रा नौयात्रार्जितधनैः सपादकोटिमूल्यमाणिक्यपञ्चकं चक्रे । प्रान्ते चोक्तं श्रीशत्रुञ्जयरैवतदेवपत्तनेषु दैवस्यैकैकं दद्याः, द्वे त्वया स्थाप्ये' इति । तत् त्रयं हेमखचितमृषभनेमिचन्द्रप्रभाणां स कण्ठाभरणीचके । श्रीरैवते श्वेताम्बरदिगम्बरसङ्घयोः समं प्राप्तयोस्तीर्थविवादे य इन्द्रमालां परिधत्ते तस्येदं तीर्थमिति वृद्धोक्तौ, साधुपेथडेन षट्पञ्चाशद्घटीस्वर्णेनेन्द्रमाला परिदधे । चतुर्घटीस्वर्णं मार्गणेभ्यो ददे । तीर्थं स्वं चक्रे । एवं परिधापनिका-नव्यधौतिकविचित्रचन्द्रोदया-ऽङ्गरूक्षण-दीपतैलजात्यचन्दनकेसरभोगाद्यपि चैत्योपयोगि प्रतिवर्ष यथाशक्ति मोच्यम् ॥५॥ (६-७) तथा विशिष्टाङ्गी-पत्रभङ्गी-सर्वाङ्गभरण-पुष्पगृह-कदलीगृह-पुत्रिका-जलयन्त्रादिरचना-नानागीतनृत्ताधुत्सवैर्महापूजा रात्रिजागरणं च कार्ये । यथैकेन महेभ्येनाऽब्धियात्रां गच्छता लक्षव्ययेन द्वादशवर्ष्या मनोऽभीष्टलाभहष्टेन तत आगतेन कोटिव्ययेन चैत्ये महापूजादि विदधे ॥६-७॥ (८) तथा श्रुतज्ञानस्य पुस्तकादिस्थस्य कर्पूरादिना पूजामात्रं सर्वदाऽपि सुकरं, प्रशस्तवस्त्रादिभिर्विशेषपूजा तु प्रतिमासं | शुक्लपञ्चम्यां श्रावकस्य कर्तुं युज्यते । तथाप्यशक्तौ जघन्यतोऽपि सा प्रतिवर्षमेकैकवारं कार्या । तद्विस्तरस्तु जन्मकृत्यमध्ये ४४९
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy