________________
श्राद्धविधि
प्रकरणम्
एवं यात्रां कृत्वा तथैव वलमानः प्रौढप्रवेशोत्सवैः स्वगृहमागतो देवाह्वानादिमहं वर्षादि यावत्तीर्थोपवासादि च कुरुते । इति यात्राविधिः ।
श्रीसिद्धसेनदिवाकरप्रबोधितविक्रमादित्यस्य श्रीशत्रुञ्जययात्रासङ्घ एकोनसप्तत्यधिकशतं सौवर्णा देवालयाः, पञ्चशती दन्तचन्दनादिमयाः श्रीसिद्धसेनाद्याः पञ्चसहस्राः सूरयः, चतुर्दश नृपा मुकुटबद्धाः, सप्ततिलक्षाणि श्राद्धकुटुम्बानि, एका कोटिर्दशलक्षाणि नवसहस्री च शकटानि, अष्टादश लक्षाणि तुरङ्गमाः, षट्सप्ततिशतानि गजाः, एवं करभवृषभाद्यपि ज्ञेयम् । श्रीकुमारपालस्य स्वर्णरत्नादिमयाश्चतुःसप्तत्यधिकाऽष्टादशशती देवालयाः । थिरापद्रे पश्चिममण्डलीकेतिख्यातस्य आभूसङ्घपतेस्तु सप्तशतानि तद्यात्रायां द्वादशकोटिस्वर्णव्ययः । साधुपेथडस्यैकादशरूप्यङ्कलक्षव्ययस्तीर्थदर्शने, सङ्घ देवालया द्वापञ्चाशत्, मनुष्याः सप्त लक्षाः । मन्त्रिवस्तुपालस्य सार्द्धा द्वादश यात्रा: प्रसिद्धाः इति यात्रात्रयस्वरूपम् ॥३॥
(४) तथा चैत्ये स्नात्रमहोऽपि मेरुभरणाष्टमङ्गली-नैवेद्यादिढौकन- भूयस्तरजात्यचन्दनकेसरपुष्पभोगाद्यानयन-सकलसमुदायमीलन-स्फीतसङ्गीतकाद्याडम्बर- दुकूलादिमहाध्वजप्रदान - प्रभावनादिप्रौढविस्तारेण प्रत्यहं पर्वसु वा कर्त्तुमशक्तेनापि प्रतिवर्षमेकैकः कार्यः । स्नात्रमहे च स्वविभवकुलप्रतिष्ठाद्यनुसारेण सर्वशक्त्या द्रव्यव्ययाद्याडम्बरेण श्रीजिनमतमहोद्योतहेतौ यतनीयं । श्रूयते हि साधुपेथडेन श्रीरैवते स्नात्रमहामहे षट्पञ्चाशद्घटीस्वर्णेनेन्द्रमाला परिदधे । श्रीशत्रुञ्जयरैवतयोश्चैक एव काञ्चनमयो ध्वजः प्रददे । तत्पुत्रेण साधुझांझणेन तु दुकूलमय इति स्नात्रम् ॥४॥
पञ्चमः
प्रकाशः
४४८