Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala

Previous | Next

Page 9
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) [मन्दाक्रान्ता-वृत्तम्] स्तुत्वा देवं यदुकुलमणिं नेमिनाथं जिनेन्द्रं / शत्रुस्निग्धे कमठधरणेन्द्रे समं पारश्वनाथम् / भूयो भूयो दशनपरकं कौशिकं चण्डपूर्वं / क्षान्त्वा बोधप्रवणमतिकं वर्द्धमानं नमामि / / 2 / / शार्दूलविक्रीडित वृत्तम्] . स्मृत्वा श्रीजिनभारती गणधरं श्रीगौतममेत्यादिकं. तीर्थोद्धारधुरन्धरं गुरुवरं श्रीनेमिसूरीश्वरम् / प्रख्यातं प्रगुरुञ्च पण्डितवरं, लावण्यसूरीश्वरं, श्रेष्ठं शास्त्रविशारदं कविरविं श्रीदक्षसूरिं गुरुम् / / 3 / / वसन्ततिलका-वृत्तम्] श्रीस्थूलभद्रमुनिवर्यचरित्रयुक्तं, चारित्रसुन्दरगणिप्रवरेण दृब्धम्। साहित्यसर्वगुणबोधजलेन पूतम्, प्रख्यातमस्ति भुवने प्रियशीलदूतम् / / 4 / / तस्योपरि प्रियतमां सरलां सुशीला, टीकां करोमि विजयादि सुशीलसूरिः / श्रीशालिभद्रनिजशिष्यकृतार्थनातः, जाता प्रवृत्तिरिति मे सफलाऽस्तु लोके / / 5 / / महाकविकालिदाससरस्वतीप्रसादोद्गतमेघदूताभिधानखण्डकाव्यस्य विप्रलम्भशृङ्गाररसप्रधानस्य निखिलपद्यान्तिमचरणं समस्यारूपेणाश्रित्य तत् पूरकैर्विप्रलम्भद्योतकैरपि शान्तपर्यवशायिभि स्त्रिभिश्चरणैः स्वनिर्मितैः सङ्गमय्य विरचयिष्यमाणं शीलदूताभिधानं बुद्धिस्थं खण्डकाव्यं प्रारिप्समाणः श्रीबृहत् तपोगच्छनायकभट्टारकाचार्यश्रीरत्नसिंहसूरिशिष्योपाध्याय श्रीचारित्रसुन्दरगणिवरो निर्विघ्नपरिसमाप्तिशिष्यपरम्परा प्रसार कामनया शिष्टपरम्परापरिप्राप्तं वस्तु निर्देशरूपं मङ्गलमाचरन्नाह- .

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 102