Book Title: Shatkhandagama Pustak 01
Author(s): Pushpadant, Bhutbali, Hiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
Publisher: Jain Sahityoddharak Fund Karyalay Amravati

View full book text
Previous | Next

Page 474
________________ १, १, ११५.] संत-परूवणाणुयोगद्दारे णाणमग्गणापरूवणं [३५५ को व्यञ्जनावग्रहः ? प्राप्तार्थग्रहणं व्यञ्जनावग्रहः' । तत्र चक्षुर्मनसोरावग्रह एव तयोः प्राप्तार्थग्रहणानुपलम्भात् । शेषाणामिन्द्रियाणां द्वावप्यवग्रही भवतः । शेषेन्द्रियेष्वप्राप्तार्थग्रहणं नोपलभ्यत इति चेन्न,एकेन्द्रियेषु योग्यदेशस्थितनिधिषु निधिस्थितप्रदेश शंका-व्यंजनावग्रह किसे कहते हैं ? समाधान-प्राप्त अर्थके ग्रहण करनेको व्यंजनावग्रह कहते हैं। उनमें, चक्षु और मनसे अर्थावग्रह ही होता है, क्योंकि, इन दोनोंमें प्राप्त अर्थका ग्रहण नहीं पाया जाता है। शेष चारों ही इन्द्रियोंके अर्थावग्रह और व्यंजनावग्रह ये दोनों भी पाये जाते हैं। शंका-शेष इन्द्रियों में अप्राप्त अर्थका ग्रहण नहीं पाया जाता है, इसलिये उनसे अर्थावग्रह नहीं होना चाहिये ? समाधान- नहीं, क्योंकि, एकेन्द्रियों में उनका योग्य देशमें स्थित निधिवाले प्रदेशमें १ व्यञ्जनमव्यक्तं शब्दादिजातं तस्यावग्रहो भवति । xx ननु अवग्रहग्रहणमुभयत्र तुल्यं तत्र किंकृतोऽयं विशेषः ? अर्थावग्रहव्यञ्जनावग्रहयोळक्ताव्यक्त कृतो विशेषः । कथम् ? अभिनवशरावाीकरणवत् । यथा जलकणद्वित्रिसिक्तः शरावोऽभिनवो नाद्रीभवति, स एव पुनः पुनः सिच्यमानः शनैस्तिम्यते, एवं श्रोत्रादिष्विन्द्रियेषु शब्दादिपरिणताः पुद्गला द्वित्र्यादिषु समयेषु गृह्यमाणा न व्यक्तीभवन्ति, पुनः पुनरवग्रहे सति व्यक्तीभवन्ति । अतो व्यक्तग्रहणात्प्राग्व्यञ्जनावग्रहः । व्यक्तग्रहणमर्थावग्रहः । स. सि. १. १८ । त. रा. वा. १. ५८. वा. २. अव्यक्तमत्र शब्दादिजातं व्यंजन मिष्यते । तस्यावग्रह एवेति नियमोऽध्यक्षवद्गतः ॥ त. श्लो. वा. १. १८. २. xx इन्द्रियैः प्राप्ताविशेषग्रहणं व्यंजनावग्रहः । तैरप्राप्तार्थविशेषग्रहणं अर्थावग्रह इत्यर्थः । व्यंजनं अव्यक्तं शब्दादिजातं इति तत्त्वार्थविवरणेषु प्रोक्तं कथमनेन व्याख्यानेन सह संगतमिति चेदुच्यते, विगतं-अंजनं-अभिव्यक्तिर्यस्य तद् व्यंजन । व्यज्यते म्रक्ष्यते प्राप्यते इति व्यंजन । अंजु गतिव्यक्तिम्रक्षणेविति व्यक्तिम्रक्षणार्थयोर्महणात् । शब्दाद्यर्थः श्रोत्रादीन्द्रियेण प्राप्तोऽपि यावन्नाभिव्यक्तस्तावद् व्यंजनमित्युच्यते एकवारजलकणसिक्तनूतनशराववत् । पुनरभिव्यक्ती सत्यां स एवार्थों भवति । गो. जी., जी. प्र, टी. ३०७.xx अर्थ्यते इत्यर्थः अर्थस्यावग्रहणं अर्थावग्रहः, सकलरूपादिविशेषनिरपेक्षानिर्देश्यसामान्यमात्ररूपार्थग्रहणमेकसामयिकमित्यर्थः। तथा व्यज्यते अनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, तच्चोपकरणेन्द्रियस्य श्रोत्रादेः शब्दादिपरिणतद्रव्याणां च परस्परं सम्बन्धः, सम्बन्धे हि सति सोऽर्थः शब्दादिरूपः श्रोत्रादीन्द्रियेण व्यंजयितुं शक्यते नान्यथा, ततः सम्बन्धो व्यंजनं ।xx व्यंजनेन-सम्बन्धेनावग्रहणं सम्बध्यमानस्य शब्दादिरूपस्यार्थस्याव्यक्तरूपः परिच्छेदो व्यंजनावग्रहः । अथवा व्यज्यन्ते इति व्यंजनानि, कृबहुलमिति बचनात कर्मण्यनट, व्यंजनाना शब्दाविरूपतया परिणतानां द्रव्याणामुपकरणेन्द्रियसम्प्राप्तानामवग्रहः अध्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः।xx इयमत्र भावना उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसम्बन्धे प्रथमसमयादारभ्यार्थावग्रहात् प्राक या सुप्तमत्तमूर्छितादिपुरुषाणामिव शब्दादिद्रव्यसम्बन्धमात्रविषया काचिदव्यक्ता ज्ञानमात्रा सा व्यञ्जनावग्रहः, स चान्तमुहूर्तप्रमाणः। नं.सू.पृ.१६८.२ कोर्थावग्रहः व्यंजनावग्रही वा? अप्राप्तार्थग्रहणमर्थावग्रहः। प्राप्तार्थग्रहणं व्यंजनावग्रहः। न स्पष्टास्पष्टग्रहणेऽर्थव्यंजनावग्रही। तयोश्चक्षुर्मनसोरपि सत्त्वतस्तत्र व्यंजनावग्रहस्य सत्त्वग्रसंगादस्तुचेन्न, न चक्षुरानि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560