________________
५३
३७
यदुक्तम्- “ विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् । तत्र विप्रतिपत्तिः साधनामा से साधन बुद्धिषणाभासे च दूषणबुद्धिरिति, मप्रतिपत्तिः साधनस्यादूषणं दूषणस्य चानुद्धरणम् । तच्च निग्रहस्थानं द्वाविंशतिभेदम्, तद्यथा - प्रतिज्ञाहानिः १, प्रतिज्ञान्तरं २, प्रतिज्ञाविरोधः ३, प्रतिज्ञासन्न्यासः ४, हेत्वन्तरम् ५, अर्थान्तरम् ६, निरर्थ - कम् ७, अविज्ञातार्थम् ८, अपार्थकम् ९, अमाप्तकालं १०, न्यूनम् ११, अधिकम् १२, पुनरुक्तम् १३, अननुभाषणम् १४, अज्ञानम् १५, अप्रतिभा १६, विक्षेपः १७, मतानुज्ञा १८, पर्यनुयोज्योपेक्षणं १९, निरनुयोज्यानुयोगः २०, अपसिद्धान्तः २१, हेत्वाभासव २२ । तत्र हेतावनैकान्तिकीकृते प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽभ्युपगच्छतः 'प्रतिज्ञाहानि' नमनिग्रहस्थानं भवति, यथा- 'ऽनित्यः शब्द ऐन्द्रियकत्वाद् घटवदिति प्रतिज्ञासाधनाय वादी वदन् परेण 'सामान्यमैन्द्रियक (त्व) मपि नित्यं दृष्टमिति हेतावनैकान्तिकीकृते यद्येवं ब्रयात् 'सामान्यवद् घटोऽपि नित्यो भवति' स एवं ब्रुवाणः शब्दानित्यत्वप्रतिज्ञां जह्यात् १ |
विद्या० टीका श्लो० ३२ ]
परिज्ञातार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साध'नीयमभिदधतः 'प्रतिज्ञान्तरं' नाम निग्रहस्थानं भवति, ' अनित्यः शब्द ऐन्द्रियकत्वादित्युक्ते तथैव सामान्येन व्यभिचारे नोदिते ३७. गौतमसूत्रमिदं १-२ - १९ । इति स्याद्वादमञ्जरी प्रस्तावना पृ ३१ ॥