Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad

View full book text
Previous | Next

Page 180
________________ विद्या० टीका श्लो० ८१] १४७. दिति न कोऽपि स्वानभिमतमालिन्यमश्नुवीत, एवं न कस्यचित् सेन्यसेवक भावो दरिद्विधनिभावो वा स्यात्, तथा च जगद्वयवस्थाकोपप्रसङ्ग इति सुस्थितमिन्द्रियगोचर एव प्रमाणम् । ये चानुमानागमादिप्रामाण्यमनुमन्वानाः पुण्यपापन्यापप्राप्यस्वर्गनरकादिसुखासुखं व्यवस्थापयन्तो वाचाटा न विरमन्ति तान् प्रति दृष्टान्त ૧૪૪ माह - भद्रे ! वृकपदं पश्येति, यथा हि कश्चित् पुरुषो वृकपददर्शन " १४४ " अत्रायं संप्रदायः - कचित्पुरुषो नास्तिकमतवासनावासितान्तःकरगो निजां जायामास्तिक मतनिबद्धमतिं स्वशास्त्रोक्तयुक्तिभिरभियुक्तः प्रत्यहं प्रतिबोधयति सा तु यदा न प्रतिबुध्यते तदा स 'इयमनेनेोपायेन प्रतिभोत्स्यत' इति स्वचेतसि विचिन्त्य निशायाः पश्चिमे यामे तया समं नगरान्निर्गत्य तां प्रत्यवादीत् - ' प्रिये ! य इमे नगरवासिनो नराः परोक्षविषये ऽनुमानादिप्रामाण्यमाचक्षाणा लोकेन च बहुश्रुततया व्यवह्रियमाणा विद्यन्ते पश्य तेषां चारुविचारणायां चातुर्य'मिति, ततः स नगरद्वारादारभ्य चतुष्पथं यावन्मन्थरतरप्रसृमरसमीरण समीभूतपांशुप्रकरे राजमार्गे द्वयोरपि स्वकरयोरङ्गुष्ठप्रदेशिनीमध्यमाङ्गुलित्रयं मीलयित्वा स्वशरीरस्योभयोः पक्षयोः पांशुषु न्यासेन वृकपदानि प्रचक्रे, ततः प्रातस्तानि पदानि निरीक्ष्यास्तोको लोको राजमार्गेऽमिलत्, बहुश्रुता अपि ! तत्रागता जनान्प्रत्यवोचन्त - 'भो भो वृकपदानामन्यथा पपत्या नूनं निशि वृकः कश्चन वनतोऽत्रागच्छत्' इत्यादि, ततः स तांस्तथा आषमाणान्निरीक्ष्य निजां भाया जजल्प - ' हे 'भद्रे' प्रिये वृकपदं, अत्र जाता # 1

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194