Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad
View full book text
________________
षड्०]
एते च नैयायिकादिप्रवादा अनन्तधर्मात्मके वस्तुनि स्वाभिप्रेतनित्यत्वादि धर्मावधारणात् शेषधर्मतिरस्कारेण प्रवर्तमाना दुर्णया उच्यन्ते, यथा'नित्य एव शब्दः ' इत्यादि । दुर्णयवलप्रभावितसत्ताका हि खल्वेते प्रवादाः, तथा हि-नैगमनयदर्शनानुसारिणौ नैयायिकवैशेषिको, सङ्ग्रहनयानुसारिणः सर्वेऽपि मीमांसि(स)कविशेषा अद्वैतवादाः साङ्खचदर्शनं च, व्यवहारनयानुसारिणः प्रायश्चार्वाका नास्तिकाः, ऋजुसूत्रनयानुसारिणो बौद्धाः, शब्दादिनयावलम्बिनो वैयाकरणादयः । त एव च प्रवादा अनन्तधर्मात्मके[९] वस्तुनि स्वाभिप्रेतनित्यत्वादिधर्मसमर्थनाप्रवणाः शेषधर्मस्वीकारतिरस्कारपरिहारेण प्रवर्तमाना नया उच्यन्ते, यथा 'अनित्यः शब्दः' इत्यादि।परस्परसापेक्षं सर्वनयमयंतु जिनमतम् . यथा 'स्यादनित्यः शब्द' इत्यादि । अत एवोच्यते
परस्परापेक्षस।नयनिर्मितमार्हतम् । मतं प्रमाणं स्याद्वादिश्रेयं श्रेयोर्थिभिर्बुधैः॥१
___ इति लघुषड्दर्शनसमुच्चयः समाप्तः । अयैवं षड्दर्शनद्विकसमाप्तौ पूज्यश्रीतपोगणनायकशासनदिवाकरागममनमरिपुरन्दरश्रीमद्विजयप्रेमसूरीशमुविहितपट्टालङ्काराचार्यप्रवरविजयजम्बूसूरीश्वरैः सपागन्तरटिप्पणकसंशोधनविंशदीकृतमतीवप्रयाससाध्यमेतदखिलग्रन्थस्य संपादनमपि समाप्तिमगात् । इति शुभं भवतु श्रीसंघस्य । श्रीवीरात्सं०२४७५, श्रावण. शुक्ला ११, गुरुवासरः, पुण्यस्थलश्रीम्हेसानोपाश्रयः।

Page Navigation
1 ... 188 189 190 191 192 193 194