Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad
View full book text
________________
१५३
विद्या• टोका श्लो० ८७ ]
उपसंहरन्नाहलोकायतमतेऽप्येवं, संक्षेपोऽयं निवेदितः। अभिधेयतात्पर्यार्थः, पर्यालोच्यः सुबुद्धिभिः ॥७॥
व्याख्या-एवममुना प्रकारेण लोकायतमतेऽपि अयं संक्षेपो निवेदितः, 'अपि' समुच्चये, न केवलमपरमतेषु संक्षेप उक्तो लोकायतमतेऽपि । अथ सर्वदर्शनसम्मतसंग्रहे परस्पर कल्पितानल्पविकल्पजल्परूपे प्ररूपिते किंकर्तव्यमूढानां प्राणिनां यत्कर्त्तव्योपदेशमाह-'अभिधेये 'ति, सुबुद्धिभिः पंडितैरभिधेयतात्पर्यार्थः पर्यालोच्यः, 'अभिधेयं' कथनीय मुक्त्यतया प्रतिपाधं यहनस्वरूपं तस्य 'तात्पर्यार्थः' साराओं विचारणीयः 'सुबुद्धिमिरिति शुद्धा पक्षपातरहिता बुद्धिर्येषामिति, न तु कदाग्रहग्रहिलैः, यदुक्तम्--
" आग्रही बत निनीषति युक्ति, तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्ति-र्यत्र तत्र मतिरेति निवेशम् ॥” (७०)इतिा
दर्शनानां पर्यन्तैकसारूप्येऽपि पृथक्पृथगुपदेष्टव्याद्विमतिसम्भवे विमूढस्य प्राणिनः सर्वस्य पृथक्तया दुर्लभं स्वर्गापवर्गसाधकत्वमतो विमर्शनीयस्तात्त्विकोऽर्थः, यथा च विचारितं चिरन्तनैः-- " श्रोतव्यः सौगतो धर्मः, कर्तव्यः पुनरार्हतः । वैदिको व्यवहर्त्तव्यो, ध्यातव्यः परमः शिवः ॥” (७१)

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194