Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad
View full book text
________________
-१४९
विद्या० टोका प्रलो. ८२] शोभनत्वं -वदननयनादिवङ्गत्वं यस्याः सेति तत्संबोधनम् , पिव पेयापेयव्यवस्थासंस्थुल्येन मदिरादेः पानं कुरु, न केवलं पिब, खाद च भक्ष्याभक्ष्यनिरपेक्षतया मांसादिकं मक्षय, यद्वा 'पिके'ति अधरादिपानं कुरु, 'खादे 'ति भोगानुपभुक्ष्वेति काम्युपदेशः, स्वयौवनं सफलीकुावत्यर्थः। अथ 'सुलभमेव पुण्यानुभावाद्भवान्तरेऽपि शोभनत्वमिति परोक्तमाशंक्याह-यदतीतं वरगात्रि! तन्न ते, हे 'वरगात्रि!" प्रधानाङ्गि ! यत् 'अतीतम्। अतिक्रान्तं यौवनादि तत् 'ते' तव भूयो न, किन्तु जराजीणत्वमेव भविष्यतीत्यर्थः । 'जातशोभने ' 'वरगात्री' ति संबोधनयोः समानार्थयोरप्यादरानुरागातिरेकान पौनरुक्त्यदोषः, यदुक्तम्" अनुवादादरवीप्साभृशार्थ-विनियोगहेत्वसूयासु ।
ईषत्संभ्रमविस्मयगणना-स्मरणेष्वपुनरुक्तम् ॥" (६९)
ननु ' स्वेच्छाऽविच्छिन्नखादने पाने दुस्तरा परलोके कष्टपरम्परा मुलभं च सति सुकृतसञ्चये भवान्तरेऽपि यौवनादिकमिति पराशङ्कां दूषयन्नाह-न हि भीरु ! गतं निवर्त्तते, हे भीरु ! परोक्तमात्रेण नरकादिप्राप्य दुःखभयाकुले ! 'गतम् ' इह भवातिक्रान्तं मुखयौवनादि न निवर्तते' परलोके न ढोकते, परलोकमुखाकांक्षया तपश्चरणादिकष्टक्रियाभिरिहत्य सुखोपेक्षा व्यर्थेत्यर्थः । अध 'जन्यजनकसम्बन्धसद्भावादमुना कायेन परलोकेऽपि सहेतुकं
x 'रादिपानं ध,।

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194