Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad
View full book text
________________
[ षड्दर्शनस० मुखदुःखादि वेदितव्यमवश्यमेवेति चेदाह-समुदयमात्रमिदं कलेवरम्, इदं 'कलेवरं ' शरीरं समुदयमात्रं 'समुदयो' मेलो वक्ष्यमाणचतुर्भूतानां संयोगस्तन्मात्र, 'मात्र' शब्दोऽवधारणे, भूतचतुष्टयसम्बन्ध एव कायो न च पूर्वभवादिसंबद्धशुभाशुभकर्मविपाकवेचमुखदुःखानुबन्धसव्यपेक्ष इत्यर्थः, संयोगाश्च तरशिखरावलीलीनशकुनिगणवत् क्षणविनश्वरास्तस्मात् परलोकानपेक्षतया यथेच्छं पिब खाद चेति वृत्तार्थः॥ ८२॥ चैतन्यमाहकिञ्च पृथ्वी जलं तेजो, वायु तचतुष्टयम् । चैतन्यभूमिरेतेषां, मानं त्वक्षजमेव हि ॥८३॥
व्याख्या-किश्च इत्युपदर्शने, पृथ्वी' भूमिः, जलमापः, तेजो वहिः, वायुः पवनः, इति भूतचतुष्टयं तेषां-चार्वाकाणां चैतन्यभूमिः-चेतनोत्पत्तिकारणम् , चत्वार्यपि भूतानि सम्भूय सपिण्डं चैतन्यं जनयन्तीत्यर्थः। तु पुनर्मान प्रमाणं हि निश्चितमक्षजमेव-प्रत्यक्षमेवैकं प्रमाणमित्यर्थः ॥ ८३ ॥
ननु भूतचतुष्टयसंयोगजदेहे चैतन्योत्पत्तिः कथं प्रतीयताम् ? इत्याशंक्याहपृथ्व्यादिभूतसंहत्या, तथा देहादिसम्भवः । मदशक्तिः सुराङ्गेभ्यो, यद्वत् तद्वत् स्थिताऽऽत्मता ॥४॥
1. 'थ्वी जलं तेजो घायुः-भूमि-जल-वह्नि-पवनाः इति भूत ध.।

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194