Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad
View full book text
________________
११८
षड्दर्शनस.. श्वेताम्बरा दिगम्बराश्च, तत्र श्वेताम्बराणां रजोहरणमुखवस्त्रिका लोचादि लिङ्ग, चोलपट्टकल्पादिको वेषः, पञ्च समितयस्तिस्रश्च गुप्तयस्तेषामाचारः,-"ईया-भाषेषणादाननिक्षेपोत्सर्गसंज्ञिकाः । पञ्चाहुः समितीरितस्रो गुप्तास्त्रियोगनिप्रहात् ॥” इति वचनात्, अहिंसासत्यारतेयब्रह्माकिंचन्यवान् क्रोधादिविजयी दान्तेन्द्रियो निम्रन्थो गुरुः, माधुकर्या वृत्त्या 'नवकोटीविशुद्धस्तेषां नित्यमाहारः, संयमनिर्वाहार्थमेव वस्त्रपात्रादिधारणम्, वन्द्यमाना धर्मलाभमाचक्षते । दिगम्बराः पुनर्नाग्न्यलिङ्गाः पाणिपात्राश्च, चतुर्धा-काष्ठासङ्घमूलसङ्घमाथुरसङ्घगोप्यसङ्घभेदात् , काष्ठासङ्घ चमरीवालैः पिच्छिका, मूलसचे मायुरपिच्छेः पिच्छिका, माथुरसङ्घ मूलतोऽपि पिच्छिका नाहता, गोऱ्या मायूरपिच्छिका, आद्यास्त्रयोऽपि सङ्घा वन्द्यमाना धर्मवृद्धि भणन्ति, स्त्रीणां मुक्तिं केवलिनां भुक्तिं सद्वतस्थस्यापि सचीवरस्य मुक्तिं च न मन्वते, गोप्यास्तु वन्द्यमाना धर्मलाभं भणन्ति, स्त्रीणां मुक्तिं केवलिनां मुक्तं च मन्यन्ते, गोप्या यापनीया इत्यप्युच्यन्ते, सर्वेषां च भिक्षाटने भोजने च द्वात्रिंशदन्तराया मलाश्च चतुर्दश वर्जनीयाः, शेषमाचारे गुरौ च देवे च सर्वं श्वेताम्बरैस्तुल्यम्, नास्ति तेषां मिथः शास्त्रेषु तर्केष्वपरो भेदः।" इति बृहद्वृत्तिः, पृ. ४५ । एतद्वृत्तिप्रणेतृणां श्रीमदाचार्यगुणरत्नसूरीश्वराणां सत्तासमयो वैक्रमिक १४६६ प्रतीयते, एतस्मिन्काले स्थानकवासिढूंढकाल्यतृतीयो भेदोऽनुत्पन्नत्वेन नोल्लिखितः, समधिकशतवर्षानन्तरमस्योत्पत्तिर्लिखारीलंकानामकेन स्वयमवतिनाऽपि जाता, एते पुनर्मुखबन्धाः
१ हस्तेन केशलुञ्चनं लोचः । २ करणकारापणानुमोदनविषयों हननपचनक्रयणरहित आहारः स नवकोटीविशुद्धः ।

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194