Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad
View full book text
________________
विद्या० टौका श्लो० ७८ ]
विशेषान्तरमाह-नैयायिकमतादन्ये, भेदं वैशेषिकैः सह ।
न मन्यन्ते मते तेषां पञ्चैवास्तिकवादिनः ॥७८||
व्याख्या - अन्ये' आचार्या नैयायिकमताद्वैशेषिकैः
१४०
सह भेदं न मन्यन्ते - दर्शनाधिष्ठात्रेक 'देवतत्वात् पृथग्दर्शनं नाभ्युपगच्छन्ति, तेषां मतापेक्षया आस्तिकवादिनः पञ्चैव ॥७८॥ १ न्ये चाचार्या ध. । २. 'दै° जं. ध. प्र. ।
“
ma
१४० एकदेवतत्त्वेन तत्त्वानां मिथोऽन्तर्भावेनाल्पीयस एव भेदस्य भावाच्च नैयायिकवैशेषिकाणां मिथो मतैक्यमेवेच्छन्तीत्यर्थः। " बु०० पृ. १२१ ॥
66
1
अत्र बृहद्वृत्तिः - " जैमिनीया वेषेण साख्या इवैकदण्डास्त्रिदण्डा धातुरक्तवाससो मृगचर्मोपवेशनाः कमण्डलुधराः मुण्डशिरसः संन्यासिप्रभृतयो द्विजाः, तेषां वेद एव गुरुर्न पुनरन्यो वक्ता गुरुः, त एव स्वयं [ तव ] — संन्यस्तं संन्यस्तमिति भाषन्ते, यज्ञोपवीतं च प्रक्षाल्य त्रिर्जलं पिबन्ति । ते द्विधा - एके याज्ञिकादयः पूर्वमीमांसावादिनः, अपरे तूत्तरमीमांसावादिनः। तत्र पूर्वमीमांसावादिनः कुकर्मविवर्जिनो यजनादिषट्कर्मकारिणो ब्रह्मसूत्र गृहस्थाश्रमसंस्थिता शूद्रान्नादिवर्जका भवन्ति, ते च द्वेधा भाट्टाः प्राभाकराश्च, * वेद एव गुरुस्तेषां वक्ता कश्चित्परो नहि । ततः स्वयं ते संन्यस्तं संन्यस्तमिति भाषिणः ॥ ६७ ॥ ( राजशे ब० स० पृ. ७
""
')
64

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194