Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad
View full book text
________________
१५०
[ षड्दर्शनस०
इति नास्तिताज्ञानग्रहणावसरे प्रामाण्यमेवाभावस्य केवलम् । भांवांश इन्द्रियसन्निकर्षजत्वेन पञ्चप्रमाणगोचरचरिष्णुतामनुभवनाबालगोपालाङ्गनापसिद्धं व्यवहारं प्रवर्त्तयति, अभावांशस्तु प्रमाणपञ्चकविषयवहिर्भूतत्वात्केवल भूतलग्रहणाद्युपयोगित्वादभाव - प्रमाणव्यपदेशमनुत इति सिद्धमभावस्यापि युक्तियुक्ततया प्रामाण्यमिति ।। ७६ ।।
drag
उपसंहरन्नाह
जैमनीयमतस्यापि, संक्षेपोऽयं निवेदितः । एवमास्तिकवादानां कृतं संक्षेपकीर्त्तनम् ॥७७॥
"
૬ ૩૯
व्याख्या - अपि शब्दान केवलमपरदर्शनानां जैमनीयमतस्यापि अयं संक्षेपो निवेदितः कथितः । वक्तव्यस्य बाहुल्यात् टीकामा सामस्त्यकथनायोगात् संक्षेप एव' प्रोक्तोऽस्ति । अथ सूत्रकृत्सम्मतं संक्षेपमुक्त्वा निगमनमाह - एवमिति, ' एव ' मित्थम्, आस्तिकवादिनामिह परलोकगतिपुण्यपापास्तिक्यवादिनां बौद्धनैयायिकसांख्यजैन वैशेषिकजैमनीयानां संक्षेपकीर्त्तनं कृतंसंक्षेपेण वक्तव्यमभिहितमित्यर्थः ॥ ७७ ॥
१३९. वक्तव्यस्य बाहुल्यादल्पोयस्य स्मन्सूत्रे समस्तस्य वक्तुमशक्यत्वात्संक्षेप
60
एव प्रोक्तः । " इति बृ बृ. पृ. १०१।१ + 'व कथितोऽस्ति जं. ।

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194