Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad
View full book text
________________
१३४
[ षड्दर्शनस०
प्राहुः, वेदोक्तस्वर्गादिसाधकाम्नायस्य क्रियाप्रवर्त्तकं वचनं नोदनामाहुरित्यर्थः । शिष्यानुकम्पया तत्सूत्रेणैव दृष्टान्तयन्नाह स्वः
+
"
कामोन यथा यजेत् ' यथा ' - येन प्रकारेण ' स्वःकामः ' - स्वर्गाभिलाषी जनोऽग्निं यजेत् - अग्नि कार्यं कुर्यात्, यथाहुस्तत्सूत्रम् - " अग्निहोत्रं जुहुयात् स्वर्गकामः ' इति ॥ ७१ ॥
*
प्रमाणान्याह -
૧૩૫
प्रत्यक्षमनुमानं च शाब्दं चोपमया सह । अर्थापत्तिरभावश्च षट् प्रमाणानि जैमनेः ॥७॥
+ यजेद्यथा, यथा येन पु. । * न्याहुः ध. ।
66
१३५ अथ विशेषलक्षणं प्रमाणस्याभिधानीयं तच्च सामान्यलक्षणाविनाभूतम्, ततः प्रथमं प्रमाणस्य सामान्यलक्षणमभिधीयते - " अनधिगतार्थाधिगन्तृप्रमाणम् " इति, अनधिगतो - अगृहीतो योऽर्थो - बाह्यः स्तम्भादिस्तस्याधिगन्तृआधिक्येन संशया दिव्युदासेन परिछेदकम्, अनधिगतार्थाधिगन्तृ - प्रागज्ञातार्थपरिच्छेदकं, समर्थविशेषणोपादानाज्ज्ञानं विशेष्यं लभ्यते, अगृहीतार्थग्राहकं ज्ञानं प्रमाणमित्यर्थः, अत्र ' अनधिगत ' इति पदं धारावाहिज्ञानानां गृहीतग्राहिणां प्रामाण्यपराकरणार्थम् 'अर्थ' इति ग्रहणं संवेदनं स्वसंविदितं न भवति, स्वात्मनि क्रियाविरोधात् किन्तु नित्यं परोक्षमेवेति ज्ञापनार्थम्, तच्च परोक्षं ज्ञानं भाट्टमतेऽर्थप्राकट्यफलानुमेयं, भाट्टप्रभाकरमते संवेदनाख्यफलानुमेयं वा

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194