Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad

View full book text
Previous | Next

Page 169
________________ १३६ [ षड्दर्शन मधिशेते । अनुमानमाह-आत्मनो बुद्धिजन्मेत्यनुमानं पुनलैंकिम् , आत्मा यदनुमिमीते स्वयं तदनुमानमित्यर्थः, अनुमानले - ङ्गिकयोः शब्दाभेदेऽपि ' अनुमोयत इत्यनुमानं लिंगाजातं लैङ्गिकमिति व्युत्पत्तिभेदाइँदो ज्ञेयः, उभयशब्दकथनं तु बालावबोधनार्थमेव ।। ७३ ।। शाब्दं शाश्वतवेदोत्थ-मुपमानं प्रकीर्तितम् । प्रसिद्धार्थस्य साधा-दप्रसिद्धस्य साधनम् ॥७॥ व्याख्या-शाब्दमागमप्रमाणं शाश्वतवेदोत्थं 'शाश्वता'नित्याद्वेदाज्जातमागमप्रमाणमित्यर्थः, शाश्वतत्वं च वेदानामपौरुषेयत्वादेव । उपमानमाह-यत् प्रसिद्धार्थस्य प्रतीतपदार्थस्य साधात् साम्यादप्रसिद्धस्य वस्तुनः साधनं तदुपमानं प्रमाण प्रकीर्तितं कथितं, यथा-प्रसिद्धगोगवयस्वरूपो बनेचरोऽप्रसिदगवयस्वरूपं नागरिकं पाह-'यथा गौगंवयस्तथेति, 'यथा मोः खुरककुदलाङ्लसास्नादिमन्तं पदार्थ गामिति जानासि गवयोऽपि १ शाब्दामे ध. । २. बोधार्थ ध.। ३ तु की ध.। ४. वस्तुसा ध. १५. णं कीर्ति ध. । ६. यथा गोस्तथा गवय इति, यथा भोः जं. ।

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194