________________
१३६
[ षड्दर्शन मधिशेते । अनुमानमाह-आत्मनो बुद्धिजन्मेत्यनुमानं पुनलैंकिम् , आत्मा यदनुमिमीते स्वयं तदनुमानमित्यर्थः, अनुमानले - ङ्गिकयोः शब्दाभेदेऽपि ' अनुमोयत इत्यनुमानं लिंगाजातं लैङ्गिकमिति व्युत्पत्तिभेदाइँदो ज्ञेयः, उभयशब्दकथनं तु बालावबोधनार्थमेव ।। ७३ ।।
शाब्दं शाश्वतवेदोत्थ-मुपमानं प्रकीर्तितम् । प्रसिद्धार्थस्य साधा-दप्रसिद्धस्य साधनम् ॥७॥
व्याख्या-शाब्दमागमप्रमाणं शाश्वतवेदोत्थं 'शाश्वता'नित्याद्वेदाज्जातमागमप्रमाणमित्यर्थः, शाश्वतत्वं च वेदानामपौरुषेयत्वादेव । उपमानमाह-यत् प्रसिद्धार्थस्य प्रतीतपदार्थस्य साधात् साम्यादप्रसिद्धस्य वस्तुनः साधनं तदुपमानं प्रमाण प्रकीर्तितं कथितं, यथा-प्रसिद्धगोगवयस्वरूपो बनेचरोऽप्रसिदगवयस्वरूपं नागरिकं पाह-'यथा गौगंवयस्तथेति, 'यथा मोः खुरककुदलाङ्लसास्नादिमन्तं पदार्थ गामिति जानासि गवयोऽपि
१ शाब्दामे ध. । २. बोधार्थ ध.। ३ तु की ध.। ४. वस्तुसा ध. १५. णं कीर्ति ध. । ६. यथा गोस्तथा गवय इति, यथा भोः जं. ।