________________
विद्या० टीका श्लो० ७२ ] - व्याख्या-जैमनेर्वेदान्तवादिनः षट् प्रमाणानि ज्ञेयानीति सम्बन्धः । यद्यपि प्रभाकराणां मते पञ्चैव प्रमाणानि, भाट्टानामेव षट्, तथाप्यत्र ग्रन्थकृत्सामान्यतः षट्संख्यामाचष्टे । प्रमाणनामानि निगदसिद्धान्येव ॥ ७२ ॥
निरुक्तमाहतत्र प्रत्यक्षमक्षाणां, सम्प्रयोगे सतां मतिः। आत्मनो बुद्धिजन्मेत्य-नुमानं लैङ्गिकं पुनः ॥७३॥
व्याख्या-तत्र प्रमाणषट्के अक्षाणामिन्द्रियाणां सम्प्रयोगे पदार्थैः सह संयोगे सतामनुपहतेन्द्रियाणां यामतिबुद्धिरिदमिदमित्सवबोधस्तत्मत्यक्ष प्रमाणं भवती'त्यध्याहारः। यत्तदावनुक्तावप्यर्थसम्बन्धाद् ज्ञेयौ, सतामिति-विदुषामदुष्टेन्द्रियाणामित्यर्थः, एतावता मरुमरीचिकायां जलभ्रमः शुक्तौ रजतभ्रमश्च इन्द्रियार्थसम्पयोगजोऽपि द्रष्टुरविकलेन्द्रियत्वाभावान प्रत्यक्षं तत्पमाणकोटिप्रतिपत्तव्यम् । अथ प्रमाणस्य विशेषलक्षणं विवक्षुः प्रथमं तन्नामानि तत्संख्यां चाह ।" (बृ. ४. पृ. ११७)
१३६. 'अत्र जैमिनीयसूत्र (४, मिदं-"सत्संप्रयोगे सति पुरु स्ये. न्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम्" इति” बृ० वृ० पृ ११८/१ । “सत्स. म्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्त विद्यमानोपलम्भनत्वात् " (मीमांसादर्शन १-१-४ ) इति प्र० मी० पृ. ३०।।
१३६