Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad
View full book text
________________
१२०
षड्दर्शनस०
-तत्र प्रमेयं स्याद्वादाधिष्ठितं द्रव्यषण्मयम् ॥१०॥...जिनकल्पादयो भेदा व्युच्छिन्नाः साम्प्रतं कलौ । वर्तमानं ततः प्रोक्तं सर्वं ज्ञेयं जिनागमात् ॥३०॥ सम्यग् जैनं मतं ज्ञात्वा योगेऽष्टाङ्गे रमेत यः । स कर्मलाघवं कृत्वा लब्धा सौख्यपरम्पराम् ॥३१॥” इति राजशेखरिय षड्द० समु० पृ० १-३ । "लब्धाऽनन्तचतुष्कस्य लोकागूढस्य चात्मनः। क्षीणाष्टकर्मणो मुक्तिर्निव्यावृत्तिर्जिनोदिता ।।९॥” इति सर्वदर्शनसंग्रहे पृ. ८८ । (पुना) ___ सर्वदर्शनसंग्रहटीकायां-" जैनव्यतिरिक्ताः सर्वे एकान्तवादिनः, ते च सप्तविधाः-तत्र सत्कार्यवादिनः सांख्याः पदार्थानां सर्वदास्तित्वमेवेति वदन्ति, शून्यवादिनो बौद्धविशेषा माध्यमिकाः परार्थानां नास्तित्वमेवेत्याहुः, असत्कार्यवादिनो नैयायिकादयः पदार्थानामुत्पत्तेः पूर्वमभाव उत्पत्यनन्तरं सत्त्वं ततो नाशे पुनरभाव इति कालभेदेन पदार्थानां सत्त्वमसत्त्वं च मन्यन्ते, जगतो मायोपादानकत्त्वं मन्यमाना मायावेदान्तिनः पदार्थानामनिर्वाच्यत्वमाचक्षते यतो मायिकं मृगजलादिप्रतीतिकालेऽपि नास्तीति पश्चाद्वाध्यतेऽतः पदार्थानां सत्त्वकाल एव वस्तुतोऽसत्वम् , अस्तित्वनास्तित्वयोमिथो विरुद्धयोयुगपद्वाचा वक्तुमशक्यत्वेनानिर्वाच्या एव पदार्था इति तदभिप्रायः, केचिन्मायावेदान्तिन एव सांख्योक्तं पदार्थानां सत्वं स्वीकुर्वन्तो मायिकत्वेनानिर्वाच्यत्वं प्रतिपेदिरे, अन्ये च मायावेदान्तिनः शून्यवाद्युक्तं पदार्थानां नास्तित्वं स्वीकुर्वन्तो मायिकत्वेनानिर्वाच्यत्वं ब्रुवते, अपरे च मायावेदान्तिनो नैयायिकायुक्तं पदार्थानां कालभेदेन सत्त्वमसत्त्वं च स्वीकुर्वन्तो मायिकत्वेनानिर्वाच्यत्वमङ्गी

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194