Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad
View full book text
________________
१२८
[ षड्दर्शनस०
१२८
मतस्य संक्षेपः परिकीर्तितः कथित इति ॥ ६७ ॥
षष्ठं दर्शनमाह-- जैमनीयाः पुनः प्राहुः, सर्वज्ञादिविशेषणः । देवो न विद्यते कोऽपि, यस्य मानं वचो भवेत्॥६॥ व्याख्या-जैमनिमुनेरमी जैमनीयाः, पुत्रपौत्राद्यर्थे तद्धित
१२९ “अथात्राप्यनुक्तं किंचिदुच्यते-व्योमादिकं नित्यं, प्रदीपादि कियत्कालावस्थायि, बुद्धिसुखादिकं च क्षणिकं, चैतन्यादयो रूपादयश्च धर्मा आत्मादेर्घटादेश्च धर्मिणोऽत्यन्तं व्यतिरिक्ता अपि समवायसम्बन्धेन संबद्धाः, स च समवायो नित्यः सर्वगत एकच, सर्वगत आत्मा, बुद्धिसुखदुःखेच्छाधर्माधर्मप्रयत्नभावनाख्यसंस्कारद्वेषाणां नवानामात्मविशेषगुणानामुच्छेदो मोक्षः, परस्परविभक्तौ सामान्यविशेषौ द्रव्यपर्यायौ च प्रमाणगोचरः, द्रव्यगुणादिषु षट्सु पदार्थेषु स्वरूपसत्त्वं वस्तुत्वनिबन्धनं विद्यते, द्रव्यगुणकर्मसु च सत्तासम्बन्धो वर्तते सामान्यविशेषसमवायेषु च स नास्तीति । षट्पदार्थी कणादकृता, तद्भाष्यं प्रशस्तकरकृतं, तट्टीका कन्दली श्रीधराचार्यांया, किरणावली तूदयनसंदृब्धा, व्योममतिर्योमशिवाचार्यविरचिता लीलावतीतर्की, श्रीवत्साचार्यांय आत्रेयतन्त्रं चेत्यादयो वैशेषिकतर्काः।" इति बृ० ४० पृ. ११४ तः प्रासङ्गिकं टिप्पितम्, अधिकं च किञ्चिन्नैयायिकदर्शनप्रान्तकृतटिप्पनतो विज्ञेयम् ।

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194