Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad

View full book text
Previous | Next

Page 155
________________ १२२ [ षड्दर्शन तान्येव तत्त्वान्याहद्रव्यं गुणस्तथा कर्म, सामान्यं च चतुर्थकम् । विशेषसमवायौ च, तत्त्वषट्कं हि तन्मते ॥ ६ ॥ व्याख्या-तन्मते वैशेषिकमते हि निश्चयेन तत्त्वषट्कं यमिति सम्बन्धः । कथमित्याह-द्रव्यं गुण इत्यादि, आदिमं तत्त्वं 'द्रव्यं' नाम, भेदबाहुल्येऽपि सामान्यादैक्यम् , द्वितीय तत्वं ' गुणो' नाम, तथेति भेदान्तरसूचने, तृतीयं तत्त्वं कर्मसंज्ञम् , चतुर्थकं तत्त्वं सामान्यम्, चतुर्थमेव चतुर्थकम् , स्वार्थे 'क' इति कमत्ययः, चः समुच्चये, अन्यच्च विशेषसमवायौ विशेषश्व समवायश्चेति द्वन्द्वः, इति तद्दर्शने तत्त्वानि पड् ज्ञेयानि१२२॥६०॥ • भेदानाहतत्र द्रव्यं नवधा, भूजलतेजोऽनिलान्तरिक्षाणि । काल दिगात्ममनांसिच, गुणः पुनः चतुर्विंशतिधा॥६॥ स्पर्शरसरूपगन्धाः, शब्दः संख्या विभागसंयोगौ। परिमाणं च पृथक्त्वं, तथा परत्वापरत्वे च ॥२॥ १२२ “केचित्त्वभावं सप्तमं पदार्थमाहुः।" बृ० वृ० पृ. १००/१। १२३ पञ्चविंशतिधा इति बृ० वृ० पृ० १०८ । ૧૨૩

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194