Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तस्मरणस्तवम् बहुवचनम् “दोवयणे बहुवयणं" इति वचनात् । ‘पवज्जहा' अत्र दीर्घत्वं मागधिकाछन्दोवशात् प्राकृतवशाद्वा। मागधिकानामछन्दः ॥६॥ अरहर तिमिरविरहिअमुवरयजरमरणं, सुरअसुरगरुलभुयगवइपययपणिवइयं । अजिय महमवि य सुनयनयनिउणमभयकरं, सरणमुवसरिय भुवि-दिविजमहिअं सययमुवणमे॥७॥ संगययं । व्याख्याः-अहं इति शेष अजितं शरणं त्राणं उपसृत्य उपगत्य उपनमे । उप सामीप्येन नमामि । किंविशिष्ट अजितम् ? 'अरइरइतिमिरविरहिय' अरतिः संयमे रतिः असंयमे तिमिरमिव तिमिरं इति कृत्वा अज्ञानं ततो रहितश्च । अरतिश्च रतिश्च तिमिरं च अरतिरतितिमिराणि, तैविरहितम् । पुनः किंविशिष्ट अजित ? 'उवरयजरमरणं', जरा च मरणं च जरामरणे उपरते जरामरणे यस्य सः उपरतजरामरणस्तम् । पुनः किं० अजितम् ? 'सुरअसुरगरुलभुयगवइपययपणिवइयं' सुरा-देवा असुरा-असुरकुमाराः गरुडाः-सुवर्णकुमाराः भुजगा नागकुमाराः तेषां पतयः खामिनः इन्द्राः तैः प्रयतं सम्यक् प्रणिपतितम् । पुनः किं० अजितम् ? 'सुनयनयनिउणं' सुशोभना नयाः परस्परसापेक्षा नयाः नैगमाद्याः सुनयाः। ते च ते नयाश्च अनेकान्तरूपाः न तु निरपेक्षैकान्तरूपाः । तैः तेषु वा निपुणो ज्ञाता तम् । पुनः किं० अजितम् ? 'अभयकरं' अभयं कर्तु शीलं यस्य स अभयकरस्त अजितम् । पुनः किं० 'भुविदिविजमहि'। भुवि-पृथिव्यां, दिवि-देवलोके जाताः मनुष्या वैमानिकाश्च तैर्महित पूजितं । संगतकं नाम छन्द ॥७॥ तं च जिणुत्तम-मुत्तमनित्तमसत्तधरं, अजवमद्दवखंतिविमुत्तिसमाहिनिहिं । संतियरं पणमामि दमुत्तमतित्थयरं, संतिमुणी मम संतिसमाहिवरं दिसउ ॥८॥सोवाणयं ॥ व्याख्याः-तं शान्ति अहमिति शेषः । प्रणमामि । किं विशिष्ट तम् ? 'जिणुत्तमं, जिनेषु तीर्थंकरपदं विना केवलिषु उत्तमो जिनोत्तमस्तम् । पुनः किं० तम् ? 'उत्तमनित्तमसत्तधरं' । उत्तम-प्रधानं, नित्तमं निःकांक्षं क्षीणावरणत्वात् , निरंजातं यत्सत्त्वं व्यवसायः तं धरतीति उत्तमनित्तमसत्त्वधरस्तम् । 'तम' धातुः कांक्षायाम् । तमनं तमः भावे अट् । तमाद् निष्क्रान्तं निस्तमं इति निस्तमशब्दस्य व्युत्पत्तिः । पुनः कि० तम् ? 'अजवमद्दवखंति विमुत्तिसमाहिनिहिं' आर्जवं मायाया अभावः, मार्दवं मानस्य अभावः, शान्तिः क्रोधस्य अभावः, विमुक्तिः लोभस्य अभावः, समाधि स्वास्थ्यं, ततो द्वन्द्वः, आर्जवं च मार्दवं च क्षान्तिश्च विमुक्तिश्च समाधिश्च आर्जवमार्दवक्षान्तिविमुक्तिसमाधयस्तेषां निधिरिव निधिस्तम् । पुनः किं० तम् । 'संतिअरं' शान्तिः उपसर्गप्रशमः, तां कर्तुं शीलं शान्तिकरस्तं शा० । पुनः किंविशिष्टं तम् ? । 'दमुत्तमतित्थयरं', दमः इन्द्रियनोइन्द्रिययोः उपरमः तेन उत्तमः दमोत्तमः । तथा तीर्थकरं तीर्थ कर्तुं शीलस्तीर्थकरस्त ततः कर्मधारयः । दमोत्तमश्चासौ तीर्थकरश्च दमोत्तमतीर्थकरस्त द० । तथा 'शान्तिमुनिः' शान्तिनामा मुनिः मे मा स्तोत्रकारकाय शान्ति समाधिवरं दिशतु । शान्तिः उपसर्गप्रशमः तया समाधिः शान्तिसमाधिः शान्तिसमाधिः स चासौ वरश्च शान्तिसमाधिवरस्तं शान्ति० ॥ सोपानकं नाम छन्दः ॥८॥ . . सावस्थिपुव्वपत्थिवं च वरहत्थिमस्थयपसत्थवि[थि]च्छिन्नसंथियं, थिरसरिच्छयच्छं मयगललीलायमाणवरगंधहत्यिपस्थाणपत्थिय संथवारिहं । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59