Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपूर्वाचार्यविरचितम् अमितबलस्तस्य सं० हे अजियबला । हे विउलकला ! विपुला-विस्तीर्णा कलाः यस्य सः विपुलकलस्तस्य सं० । कचित् “विपुलकुलेति" पाठः । तस्यायमर्थः-विपुलं कुलं वशो यस्य सः। तस्य सं० । हे भवभयमूरण ! भवस्य संसारस्य भयं भवभयं, तस्य मूरणः चूरणः हे भव० । पुनः हे जगसरणा ! हे जगत्त्राण जिन ! त्वं मम शरणं वर्तते इति शेषः ॥१३॥ अथ श्रीशान्तिनाथं स्तुवन्नाह
देवदाणविंदचंद सुरवंद ! हट्ट तुह जिह परमलट्ट रूव ! धंतरुप्पपट्टसेअ सुद्धनिद्धधवल--
दंत पंति ! संति सत्ति कित्ति मुत्तिजुत्तिगुत्ति पवर। दित्तते ! वंदधेय ! सव्वलोअ भावियप्पभावणे ! य पइस मे समाहिं ॥१४॥
नारायओ। व्याख्याः-हे शान्ते ! मे मह्यं समाहिं स्वास्थ्यं प्रदिस प्रदेहि । हे देवदाणविंदचंदसूरवंद ! देवाः-सुराः, दानवा-असुराः तेषां इन्द्राः दानवेन्द्राः । चंद्राः चन्द्रमसः सूराः-सूर्याः । ततः देवदानवेन्द्राश्च चन्द्राश्च सूराश्च देवदानवेन्द्रचन्द्रसूरास्तेषां वन्द्यः, तस्य सम्बोधनम् । पुनः हे हट्ठ तुट्ठ जिट्ठ परम लट्ठरूव! 'हृष्टं' आरोग्य, तुष्टं प्रीतं, ज्येष्ठं प्रशस्यतमं परमं श्रेष्ठ(लुष्टं) अत्यन्तकान्तंरूपं वर्णसंस्थानं यस्य स हृष्ठतुष्टज्येष्ठपरमलट्ठरूपस्तस्य सम्बोधनम् । पुनः हे धन्तरुप्पपट्टसेयसुद्धनिद्धधवलदंतपंति ! ध्मातं आवर्तितं यत् रौप्यं तस्य पट्टः तद्वच्छ्वेतो विशेषणमेतत् , शुद्धे-निर्मले, स्निग्धे--अरुक्षे, धवले-शुक्ले, विशेष्यमेतत् । ततो न पौनरुक्त्यं । दन्तानां पंक्ति यस्य सः, तस्य सम्बोधनं हे धन्त । हे संतिसत्तिकित्तिमुत्तिजुत्तिगुत्तिपवर ! शक्ति:-सामर्थ्य, कीर्तिः-श्लोकः, मुक्तिनिलोभता, युक्तिया॑यत्वं, गुप्तिर्नियमः ततो द्वन्द्वे कृते शक्तिकीर्तिमुक्तियुक्तिगुप्तयः ताभिः प्रवरः प्रधानम् (सम्बोधनं )संबोध्यः । पुनः हे दित्ततेअ!, दीप्तं तेजो यस्य सः दीप्ततेजाः, तस्य सं० । पुनः हे 'वंदधेय' वन्ध ध्येय ? गणधरादिस्मरणीयं । पुनः हे सव्वलोअभाविअप्पभावणेय ! सर्वलोकेन भावितो अवबुद्धयः प्रभावः शक्तिः तेन ज्ञेयः । तस्य सं० । नाराचकनाम छन्दः ॥१४॥
अथ श्रीअजितनाथं पदद्वयेन स्तुवन्नाहविमलससिकलाइरेअसोम, वितिमिरसूरकराइरेअते। तिअसवइगणाइरेअरूवं, धरणिधरप्पवराइरेअसारं ॥१५॥ कुसुमलया। सत्ते असया अजियं, सारीरे अपले अजियं । तवसंजमे अ अजियं, एस थुणामि जिणं अजियं ॥१६॥ भुयगपरिरंगिअयं । - व्याख्याः-एषः-अहं अजितं स्तौमि । द्वितीयपद्यान्ते उक्तिलापनिका । किं० अजितम् ? 'विमलससिकलाइरेअसोमं विमला याः शशिकलाश्चन्द्रकला स्तस्याः सकाशात् अतिरेकं सौम्यम् सौम्यता यस्य सः विमलशशिकलातिरेकसौम्यस्तं विमल० । पुनः किं० अजितम् । वितिमिरसूरकराइरेअते। 'वितिमिरा' मेघान्धकाररहिता ये सूर्यस्य कराः-किरणाः तेभ्यो अतिरेक अधिकं तेजो यस्य सः तं विति० । पुनः किं० अजितम् ? तिअसवइगणाइरेअरूवं त्रिदशानां देवानां पतय इन्द्राः, तेषां गणः समूहः, तस्मात् अतिरेकं अधिकं रूपं यस्य सः तं । यतः श्रीआवश्यकनियुक्तिः
For Private And Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59