Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तस्मरणस्तवः। देवश्च अभयदेवः । पुनः किंविशिष्टः तीर्थपति० ? 'जिनवल्लभः' जिनानां सामान्यकेवलिनां वल्लभो जिनवल्लभः । अत्र द्वयर्थच्छायया श्रीवर्धमान-१-जिनेश्वर-२-जिनचन्द्र-३-अभयदेव-४-जिनवल्लभ-नामानः ५ श्रीखरतरगच्छपट्टधारका अपि ज्ञेयाः ॥१०॥
सो जयउ बद्धमाणो, जिणेसरोणेसरुव्व हयतिमिरो।
जिणचंदाभयदेवा, पहुणो जिणवल्लहा जे उ ॥११॥ व्याख्या-सः वर्धमानो गुरुर्जयतु । पुनः जिनेश्वरो गुरुरपि जयतु । किं विशिष्टो जिनेश्वरः? 'णेसरुव्व' दिनेश्वरवत् सूर्यवत् इततिमिरः हृतं तिमिरं अज्ञानांधकार येन स इततिमिरः, एवं वर्धमानगुरुणा अपि समं विशेषणं योग्यं । पुनः यौ जिनचन्द्राभयदेवौ 'प्राकृतत्वाद् द्विवचने बहुवचनम् । पुनर्जिनवल्लभाश्च प्रभवः, अयं भावः-जिनचन्द्राऽभयदेवजिनवल्लभा अपि प्रभवः स्वामिनो जयन्तु ॥११॥
गुरुजिणवल्लहपाए,-भयदेवपहुत्तदायगे वंदे ।
जिणचंदजईसरवद्धमाणतित्थस्स बुड्किए ॥१२॥ व्याख्या-अहं इति शेषः । गुरुजिनवल्लभपादौ वन्दे । किं विशिष्टौ गुरुजिनवल्लभपादौ ? अभयदेवप्रभुत्वदायको । अभयं भयाभावः देवानां प्रभुत्वं च अभयदेवप्रभुत्वे तयोर्दायको। पक्षे अभयदेवं गुरुं अपि बन्दे । किमर्थं वन्दे ? इत्याह-'जिनचन्द्रयतीश्वरवर्धमानतीर्थस्य वृद्धि कृते' जिनचन्द्रश्चासौ यतीश्वरश्च यो वर्धमानश्च श्रीमहावीरस्तस्य तीर्थ, तस्य वृद्धिकृते-उन्नतिनिमित्तम् । पक्षे जिनचन्द्र-वर्धमानगुरू अपि वन्दे । गाथात्रये अर्थद्वयं तीर्थकरपक्षे गुरुपक्षे च यथासंभवं स्वबुद्धया योजनीयं, बृत्यादौ तु न तादृक् कुत्रापि व्याख्यातमस्ति ॥१२॥
जिणदत्ताणं सम्म मन्नति कुणति जे उ कारंति।
मणसा वयसा वउसा, जयंतु साहम्मिआ तेऽवि ॥१३॥ व्याख्या-'तेऽपि' साधर्मिकाः शक्राद्या जयन्तु । समानो धर्मो येषां ते साधर्मिकाः, देवः श्रीवीतरागः १ गुरुः सुसाधुः २ धर्मः केवलिप्रणीतः ३ इति तत्वत्रयं आश्रित्य । ते के साधर्मिकाः ? ये जिनदत्ताज्ञां जिनैस्तीर्थकरैर्या दत्ता आज्ञा जिनदत्ताज्ञा तां प्रति सम्यक् मन्यन्ते, तथा सम्यक् कुर्वन्ति, तथा सम्यक् अन्यान् प्रति कारयन्ति, केन ? मनसा पुनर्वचसा पुनर्वपुषा कायेन ॥१३॥
जिणवत्तगुणे नाणाइणो सया जे धरंति धारंति।
वंसिअसियवायपए नमामि साहम्मिया तेवि ॥१४॥ व्याख्या-तानपि साधर्मिकान् अहं नमामि । किंविशिष्टान् साधर्मिकान् ? दर्शितस्याद्वावपदान् दर्शितानि स्याद्वादस्य पदानि यैस्ते दर्शितस्याद्वादपदास्तान् द० । तान् कान् ? ये जिनदत्तगुणान् जिनस्तीर्थकरैर्दत्ता गुणास्तान जिनदत्तगुणान् ज्ञानादीन् सदा धरन्ति पुनरन्यान् प्रति धारयन्तीति ॥१४॥
सिग्धमवरहरउ विग्धं । षष्ठं स्मरणं मयाऽतिसंक्षेपात् । गणिसमयसुन्दरेण, व्याख्यातं हरतु मे दुरितम् ॥१॥... ... ॥इति सिग्घमवहरउवृत्ति सम्पूर्णा ॥६॥
For Private And Personal Use Only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59