Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तस्मरणस्तवः। रेव अध्यापनीयमिति आदौ उपाध्याया उक्ताः १ । उपाध्यायस्य समीपे सूत्रं अधीयमानस्य साधव एव साहाग्यं कुर्वन्ति इति उपाध्यायानन्तरं साधव उक्ताः २ । तथा एवं अधीतस्य सूत्रस्य अर्थ आचार्या एव कथयन्ति ततः साधूनां पश्चात् आचार्या उक्ताः ३ । आचार्योपदेशेन च अर्हन्तो ज्ञायन्ते, अर्हन् च एतत्स्तोत्रे वर्णनीयो भगवान् पार्श्व इति आचार्यानन्तरं अर्हन्त उक्ताः ४ । एतत्स्तोत्रपाठाच्च भावतः परंपरया सिद्धत्वं भवति इति अर्हदनंतरं सकलसदनुष्ठानफलभूताः सिद्धाः प्रतिपादिताः ५ ॥५॥ श्रीजिनप्रभसूरीणां, टीकाया अनुसारतः। व्याख्यानं कृतवानेवं, गणिसमयसुन्दरः ॥१॥ मतेः मान्द्यान्मनोऽस्वास्थ्याद् , वैपरीत्यं मया कृतम् । तच्छोध्यं पण्डितैर्यस्मात्, सन्तः स्युरुपकारकाः॥२॥ श्रीमत्खरतरगच्छे समभूवन् , सूरयोऽत्र जिनचन्द्राः । तच्छिष्यसकलचन्द्रा,-मुख्याः शिष्येषु सर्वेषु ॥३॥ तच्छिष्य-समयसुन्दर,-नामान: पाठका प्रसिद्धास्ते। सप्तस्मरणसुवृत्ति, चक्रुः सुखबोधिकां नाना ॥४॥ लूणिया-फसला-दत्त,-वसत्यां वृत्तिरुत्तमा। श्रीजालोरपुरे बॉण-निधि-शृंगारसंवति॥५॥ (१६९५) सप्तस्मरणटीकेयं, निर्मिता न च शोधिता। वृद्धावस्थावशाच्छोध्या, परं श्रीहर्षनन्दनैः ॥६॥ ॥ इति श्रीसप्तस्मरणवृत्तिः सम्पूर्णा ॥ ग्रंथाग्रं २००० वा० श्रीराजकीर्ति गणि तत्-शिष्य पं० राजनिधानजी तत् शिष्य पं० गिरधरलिखितम् ॥ कल्याणमस्तु । मा. श्रीकैलाससागरसूरि ज्ञानमन्दिर श्रीमहावीर जैन आराधना केन्द्र कोबा (गांधीनगर) पि 30000९ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59