Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तस्मरणस्तवः।
४९
धिष्ठितो रत्नविशेषः, कल्पपादपश्च कल्पवृक्ष उत्कृष्टकालभावी अंतःकरणसंभावितफलप्रदो वृक्षभेदः । ततः चिन्तामणिश्च कल्पपादपश्च चिन्तामणिकल्पपादपौ ताभ्यामभ्यधिक अतिशयज्ञानाधिकं चिन्तामणिकल्पपादपाभ्यधिकं तस्मिन् चि० । तौ हि प्रसन्नौ अपि ऐहिकमेव फलं दातुं समर्थों, त्वत्प्रणामस्तु चिन्तातीतमोक्षलक्षणपारलौकिकफलप्रदानसमर्थ इति ततो युक्तमेव ताभ्यां अधिकत्वं अस्य । अत्र पार्श्वयक्ष १ पद्मावती २ धरणेन्द्राणां ३ स्तवपक्षे पुनः इत्थं घटना कार्या-हे पार्श्वयक्ष ! १ हे पद्मावति ! २ हे धरणेन्द्र ! ३, तव तव सम्बन्धिनि सांमत्ये लब्धे सति जीवा अविघ्नेन एवंविधं स्थान पद प्राज्यसाम्राज्यादिकं प्राप्नुवन्ति, संमतस्य बहुलमतस्य भावः सांमत्यं वाल्लभ्यकमित्यर्थः तस्मिन् । ननु स्थानशब्देन कथं प्राज्यसाम्राज्यादिकं लभ्यते ? इत्याह-असाधारणविशेषणात् । किं तदसाधारणविशेषण ? मित्याह-किंविशिष्टं स्थानं ? 'अयरामरं अयः अनुकूलं दैवं तेन रामा रमणीया रा दीप्तिर्यत्र तत् अयरामरं उत्कृष्टभाग्यवशात् हि राज्यादिकपददीप्तिः सुतरां जायते एव पुरुषाणां, यः तव संमतो भवति सोऽनुकूलदौवायितं राज्यादिकपदमवाप्नोत्येव इत्यभिप्रायः । किंविशिष्टे तव सांमत्ये ? चिन्तामणिकल्पपादपाभ्यधिके-एताभ्यां अत्यधिकफलदायके । अथवा पीयते इति पायः-पानकं वल्भश्च-भोजनं ततः पायश्च बल्भश्च पायवल्भौ चिन्तामणिकल्पौ मनोवाञ्छितरसप्रपूरणात् चिन्तारत्नतुल्यौ पायवल्भौ ताभ्यां हितं अनुकूलं तत्संपादकत्वात् तस्मिन् । अथवा अकारप्रलोपात् किंविशिष्टा जीवाः ? अचिन्ताश्चिन्तावर्जिताः । किविशिष्टे सांमत्ये मणिकल्पपायवल्भहिते मणयः-कर्केतनादयः तैः कल्पनं रचना येषां तानि मणिकल्पानि रत्नघटितानीत्यर्थः, तथाविधानि यानि पायत्ति पात्राणि स्थालादिभाजनानि तेषु वल्भो भोजनं तेन कृत्वा तस्मै वा हिते तव सांमत्ये, त्वत्प्रसादात् सुभगानां ऐश्वर्यशालितया रत्नमयपात्रभोजनोपपत्तेः । अस्यां च गाथायां सर्वार्थसाधकं देवकुलं कल्पद्रुमयन्त्रन्यासश्च प्रतीत एव, परं सोऽपि गुरुगम्यः ॥४॥ श्रीपार्थादिस्तवं पूर्णीकुर्वन् पञ्चमगाथामाह
इय संथुओ महायसः, भत्तिभरनिम्भरेण हिययेण ।
ता देव ! (दिज्ज)देसु बोहि, भवे भवे पास ! जिणचंद ! ॥५॥ व्याख्या-हे पार्श्व ! इति पूर्वोक्तप्रकारेण मया इति शेषः । त्वं संस्तुतः सम्यक वर्णितः । केन ? हृदयेन 'ता' तस्मात् यतः त्वं संस्तुतः ततः पार्थ्यते 'देव !' त्वं अर्थसामर्थ्यात् मह्यं बोधि रत्नत्रयप्राप्ति परभवे जिनधर्मप्राप्ति वा 'देसु' देहि भवे भवे यावन्मोक्षं न प्राप्नोमि । हे महायश! महत् त्रैलोक्यव्यापि यशः कीर्तिर्यस्य स महायशा तस्य संबोधनं हे महा० । अथवा अमा रोगास्तान् हन्तीति अमहा आगः पापं स्यति अन्तं नयति इति आगस्सः, ततो विशेषणकर्मधारयः, तस्य संबोधने हे अम० । किंविशिष्टेन हृदयेन ? 'भत्तिब्भरनिभरेण' । भक्तिः-आन्तरप्रीतिः तस्या भरः प्राग्भारः तेन निर्भरं सम्पूर्ण तेन भ० । हे जिनचन्द्र ! जिना रागादिजेतारः सामान्यकेवलिनः तेषु मध्ये चन्द्र इव चन्द्रः जिनचन्द्रस्तस्य संबोधनम् हे जिनचन्द्र !, यक्षपक्षे तु एवं अर्थयोजना हे पार्श्वनाम यक्ष ! त्वं मयेति शेषः । इति पूर्वोक्तप्रकारेण संस्तुतः सन् मह्यं भवे भवे बोधिं जिनधर्मप्राप्ति देहि । न च वाच्यं यक्षात् बोधिबीजप्रार्थनं अनुचितं, यतः पूर्वाचारिति भणितमस्ति"सम्मट्ठिी देवा दितु समाहिं च बोहिं च” (४७) इति । न च वाच्यं, 'अयं सम्यग्दृष्टिर्न' यतः श्रीभद्रबाहु. स्वामिभिः परमार्हतत्वात्तस्य इदं विशेषणं भणितं तथाहि-हे जिनचंद्र ! जिन एव श्रीअर्हन्नेव चंद्र आह्लादको यस्य सः जिनचन्द्रः तस्य संबोधनम् हे जिनचन्द्र ! किं विशिष्टः त्वं ? एवं विधेन हृदयेन मनसा उपलक्षित
For Private And Personal Use Only

Page Navigation
1 ... 53 54 55 56 57 58 59