Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सप्तस्मरणस्तवः । षष्ठं स्मरणम् सिग्घमवहरउ विग्धं, षष्ठं स्मरणं यदस्ति तद्वृत्तं । खरतरगणप्रसिद्धं, समयादिसुन्दरः कुरुते ॥ १॥ सिग्धमवहरउ विग्धं, जिणवीराणाणुगामिसंघस्स । सिरिपासजिणो थंभण, - पुरहिओ णिट्टियाणिट्ठो ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्या - श्रीपार्श्वजिनः जिनवीराज्ञानुगामिसंघस्य विघ्नं शीघ्रं हरतु । जिनवीरस्य आज्ञा जिनवीराज्ञा तस्या अनुगामी यः संघः तस्य जिनवीराज्ञानुगामिसंघस्य । किंविशिष्टः श्रीपार्श्वजिनः ? स्तंभनपुरस्थितः, स्तंभनपुरे स्थितः स्तम्भनपुरस्थितः । पुनः किंविशिष्टः श्रीपार्श्वः ? निष्ठितानिष्टः निष्ठितानि क्षयं नीतानि अनिष्टानि अनभिमतानि येन सः निष्ठितानिष्टः ॥ १ ॥ गोअमसुहम्मपमुहा, गणवइणो विहिअभव्वसत्तसुहा । सिरिवद्धमाण जिणतित्थसुत्थयं ते कुणंतु सया ॥२॥ व्याख्या - ते गणपतयो गणधराः सदा सर्वदा श्रीवर्धमानजिनतीर्थस्य सुस्थतां निरुपद्रवतां कुर्वन्तु । श्रीवर्द्धमानजिनस्य तीर्थं श्रीवर्द्धमानजिनतीर्थं तस्य सुस्थता निरुपद्रवता ताम् । किंविशिष्टाः गणपतयः ? गौतमसुधर्मी प्रमुख आदिर्येषां ते गौतमसुधर्मप्रमुखाः । किंविशिष्टा गणप० विहितभव्य सत्त्वसुखाः विहितं कृतं भव्यसत्त्वानां सुखं यैस्ते विहितभव्य सत्त्वसुखाः ||२॥ सकारणो सुरा जे, जिणवेयावच्चकारिणो सन्ति । अवहरियविग्घसंघा, हवंतु ते संघसंतिकरा ॥३॥ व्याख्या- ये शक्रादयः सुरा जिनवैयावृत्त्यकारिणः सन्ति, ते सुराः संघशान्तिकरा भवन्तु । शक्र आदियेषां ते शक्रादयः । जिनस्य वैयावृत्त्यं जिनवैयावृत्त्यं तस्य कारिणः कर्तारः जिनवैयावृत्यकारिणः । किंविशिष्टाः सुराः ? अपहृतविघ्नसंघाः, अपहृतो दूरीकृतो विघ्नानां अन्तरायाणां संघः समूहो यैस्ते अप० । संघस्य शान्तिः संघशान्तिः तां कुर्वन्तीति संघशान्तिकराः ॥ ३॥ सिरिथं भट्ठि अपाससामिपयपउमपणयपाणीणं । निलियदुरियवंदो, धरणिंदो हरउ दुरिआई ||४|| व्याख्या– धरणेन्द्रः श्रीस्तंभनस्थितपार्श्वस्वामिपदपद्मप्रणतप्राणिनां दुरितानि हरतु, श्रीस्तंभननामग्रामे स्थितो यः पार्श्वस्वामी श्रीअभयदेवसूरिप्रकटितमूर्तिरूपः, तस्य पदपद्मे चरणकमले तत्र प्रणता ये प्राणिनस्तेषां श्रीस्तंभ० । किंविशिष्टः धरणेन्द्रः ? निर्दलितदुरितवृन्दः, निर्दलितं दुरितानां वृन्दं समूहो येन सनि० ||४|| गोमुहपमुक्खजक्खा, पडिहयपडिवक्खपक्खलक्खा ते । कयसगुणसंघरक्खा, हवंतु संपत्तसिवसुक्खा ॥ ५ ॥ व्याख्या–ते गोमुखप्रमुखयक्षाः कृतसगुणसंघरक्षाः भवन्तु । गोमुखः प्रमुख आदिर्येषां ते गोमुखप्रमुखाः, गोमुखप्रमुखाश्च ते यक्षाश्च गोमुखप्रमुखयक्षाः । किंविशिष्टा यक्षाः ? 'प्रतिहतप्रतिपक्षपक्षलक्षाः ' प्रतिहतं 'प्रतिपक्षाणां प्रतिवादिनां पक्षलक्षं यैस्ते प्र० । कृता संगुणस्य गुणसहितस्य संघस्य रक्षा यैस्ते कृत० । पुनः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59