Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२.
श्रीपूर्वाचार्यविरचित किंविशिष्टः जिनवल्लभसूरिः ? 'गुरुगिरिगुरुकः' गुर्वी गरिष्ठा गीर्वाणी गुरुगीस्तस्या गुरुर्गरिष्ठः स्वप्रतिज्ञाया निर्वाहकत्वात् । अथ शरभवर्णनमाह-किंविशिष्टः शरभः ? उपरिस्थितसच्चरणः उपरि पृष्टस्य ऊर्ध्वं स्थिता सन्तो विद्यमानाः चरणा पादा यस्य सः उपरिस्थितसच्चरणः । पुनः किंविशिष्टः शरभः ? 'चउरणुओगपहाणसच्चरणो' चत्वारः अनुयोगेन प्रधानाः सन्तः चरणा पादा यस्य स चतुरनुयोगप्रधानसच्चरणः । अथवा चतुरैः चातुर्ययुक्तैः अनुयोगैः सन्तः प्रधानाश्चरणाः पादा यस्य सः च० । पुनः किंविशिष्टः शरभः ? असममृगराजमथनः, असमा असाधारणा ये मृगराजाः सिंहाः तेषां मथनो हन्ता। सः कः ? यस्य शरभस्य करः शुंडादण्डः शोभते । किविशिष्टः करः ? ऊर्ध्वमुखः लीलावशात् ऊर्ध्व उल्लालितः । पुनः किविशिष्टः शरभः ? दर्शितनिर्मलनिश्चलदन्तगणः । दर्शितः प्रकटितो निर्मलः शुभ्रो निश्चलः स्थिरो दन्तानां गणः समूहो येन सः दर्शित० चतुर्दैतत्वात्तस्य । पुनः किंविशिष्टः शरभः ? अगणितश्वापदोत्थभयः, अगणित श्वापदेभ्यः उत्थं भयं येन सः अग० । पुनः किंविशिष्टः शरभः ? गुरुगिरिगुरुकः-गुरुगिरिवत् उन्नतपर्वतवत् गुरुको गरिष्ठः उच्चैस्तरत्वात् । अत्रापि श्लेषालंकारः॥१८॥ अथ पुनरपि स्वगुरोर्गुणोच्चारपूर्वक वंदनामाह
जुगपवरागमपीऊ,-सपाणपीणिअमणा कया भव्वा ।
जेण जिणवल्लहेणं, गुरुणा तं सव्वहा वंदे ॥१९॥ व्याख्या-अहं इति शेषः । तं गुरुं सर्वथा मनोवाक्काय योगैवैदे, तं कं? येन जिनवल्लभेन गुरुणा भव्याः युगप्रवरागमपीयूषपानप्रीणितमसः कृताः युगप्रवराणां आगमानां पीयूषपानं अमृतपानं तेन प्रीणितानि तृप्तीकृतानि मनांसि येषां ते यु० । प्राकृतवशात् सलोपः ॥१९॥ अथ सर्वसंघभारक्षम गुरुं प्रति आशीर्वाद गाथाद्वयेन आह
विप्फुरिअपवरपवयण, शिरोमणी बूढदुव्वहखमो य। जो सेसाणं सेसु व्व, सहइ सत्ताण ताणकरो॥२०॥ सच्चरिआणमहीणं, सुगुरूणं पारतंतमुव्वहइ ।
जय जिणदत्तसूरी, सिरिनिलओ पणयमुणितिलओ॥२१॥ व्याख्या-यो गुरुः शोभते, किंविशिष्टो यः ? 'विस्फुरितप्रवरप्रवचनशिरोमणिः' विस्फुरितं विस्तृतं प्रवरं प्रधानं प्रवचनं सिद्धान्तो येषां ते विस्फुरितप्रवरप्रवचनाः सिद्धान्तवेत्तारः तेषु शिरोमणिरिव शिरोमणिः सातिशयत्वात् । पुनः किंविशिष्टो यः ? व्यूढदुर्वहक्षमः, व्यूढा दुर्वहा क्षमा येन सः व्यूढ० । पुनः शेषाणां आचार्याणां शेष इव तदाकालवर्तिनां आचार्याणां सर्वेषां पूज्यत्वात् । पुनः किंविशिष्टो यः ? सत्वानां प्राणिनां त्राणकरः रक्षाकरः ॥२०॥ सः जयति कुतीर्थ्यादि निराकरणेन सर्वोत्कर्षेण वर्तते । स कः ? यः सुगुरूणां पूर्वोक्तानां पारतन्त्र्यं उद्वहति धारयति । किंविशिष्टानां सुगुरूणां ? सच्चरित्राणां प्रधानचारित्राणां । किंविशिष्टं पारतन्त्र्यं ? अहीनं सम्पूर्णम् । कीदृशो यः ? जिनदत्तसूरिः, जिनैस्तीर्थकरैर्दत्तो धातूनामनेकार्थत्वात् दर्शितः कथितः सर्वगुणसहितः स चासौ सूरिर्जिनदत्तसूरिः । किंविशिष्टः यः ? श्रीनिलयः लक्ष्मीगृहम् । पुनः किंविशिष्टः यः ? प्रणतमुनितिलकः, प्रणता ये मुनयस्तेषु तिलकः । अत्र श्रीजिनदत्तसूरिरिति स्वकीयनामापि सूचितम् ॥२१॥
मयरहिअवृत्तिमेना, कृत्वा श्रीसमयसुन्दरो ब्रूते । सुगुरुजिनपारतन्त्र्यं, करोतु मम विघ्नसंहारम् ।।
॥ इति मयरहिअधृत्तिः सम्पूर्णा ॥५॥
For Private And Personal Use Only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59