Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 52
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपूर्वाचार्यविरचितः ॥ सप्तमं स्मरणम् ॥ उपसर्गहरस्तोत्रं, कृतं श्रीभद्रबाहुना । तस्यवृत्तिं करिष्यामि, ब्रूते समयसुन्दरः ॥१॥ पूर्व एतस्य स्तोत्रस्य उत्पत्तिः कथ्यते-श्रीआर्यसंभूतिविजयसूरिपार्श्वे द्वौ भ्रातरौ वराहमिहिर-१ भद्रबाहु२ नामानौ दीक्षां जगृहतुः । तौ गीतार्थी जातौ चतुदर्शपूर्वाण्यपि अधीतानि । अन्यदा श्रीआर्यसंभूतविजयसूरयो योग्यतां ज्ञात्वा स्वकीयगच्छभारं श्रीभद्रबाहुस्वामिनि स्थापयित्वा स्वयं अनशनं कृत्वा समाधिना कालं कृत्वा स्वर्ग जग्मुः । श्रीभद्रबाहुस्वामिनश्च अप्रतिबद्धविहारेण विहारं कुर्वन्तो भव्यजीवान् प्रतिबोधयामासुः । अस्मिन् अवसरे वराहमिहिरसाधुः प्रद्वेषं प्राप्तः, अहो मम गच्छभारो न दत्तो गुरुणा, ततो मिथ्यात्वोदयात् सम्यक्त्वं वात्वा अज्ञानतपःकष्टानुष्ठानेन प्रस्तावे कालं कृत्वा व्यन्तरो जातः । ततो विभंगज्ञानेन पूर्वभवं स्मृत्वा अर्हत्प्रवचने जातप्रद्वेषः अप्रमत्तसाधुषु उपद्रवं कर्तुमक्षमः सन् सर्प इव छिद्राणि पश्यन् प्रमादतया क्रियानुष्ठानरहितेषु श्रावकेषु छलं प्राप्य रोगादीनि उपसर्गान् कर्तुं प्रारेभे । श्राद्धैरपि दुष्टव्यन्तरस्वरूपं ज्ञात्वा स्वयं तन्निवारणे असमर्थैः श्रीभद्रबाहुस्वामी विज्ञप्तः । श्रीभद्रबाहुस्वामिनापि चतुर्दशपूर्विणा अतिशयेन ज्ञातो दुष्टवराहमिहिरव्यन्तरकृत उपद्रवः । ततः संघस्य उपकाराय इदं स्तोत्रं चक्रे । ततः सर्वोऽपि संघः प्रतिनगरं प्रतिग्रामं प्रतिगृहं पठति स्म । तत्प्रबलप्रभावात् व्यन्तरो नंष्ट्वा गतः । संघश्च निरुपद्रवो धर्मपरायणश्च जातः । इदं स्तोत्रं च महाप्रभावम् । इदं स्तोत्रं योऽष्टोत्तरशतवारान् जपति तस्य विघ्ना दूर नश्यन्ति १, सर्वसिद्धयश्च संपद्यन्ते, तत्स्तोत्रं च इदम् उवसग्गहरंपासं, पासं वदामि कम्मघणमुक्कं । विसहरविसनिन्नासं, मंगलकल्लाणआवासं ॥१॥ व्याख्या-अहमिति शेषः, 'पाश्च' श्रीपार्श्वनाथं 'वन्दे' स्तवामि इत्युक्तिः । किंविशिष्टं पाश्चै ? 'उपसर्गहरं पाश्च' उपसर्गाः दिव्य १ मानुष २ तैरश्चा-३ ऽऽमीयवेदनीय ४ भेदाच्चतुर्विधाः तान् हरतीति उपसर्गहरः एवंविधः पार्थः पार्श्वनामा यक्षोऽधिष्ठायको यस्य स उपसर्गहरपार्श्वस्तम् । अत्र रवर्णमस्तकस्थोऽनुस्वार आर्षत्वात् अलाक्षणिकः । यथा “देवनागसुवन्नकिंनरे" त्यादि १ । अथवा किंविशिष्टं पाश्च ? उपसर्गहरा धरणेन्द्रादयः पार्थे समीपे यस्य स उपसर्गहरपार्श्वः तं । कथं ? धरणेन्द्रादीनां निरन्तर श्रीपार्श्वस्य संनिहितवर्तित्वात् २ । अथवा 'उपसर्गहरं' इति पार्श्वनाथस्य पृथक् विशेषणं । किंविशिष्टं पार्श्व ? 'पश्यं', पश्यति कालत्रयवर्तमानं वस्तुसमूहं इति पश्यः, तं पश्यं ३ । अथवा किंविशिष्टं पाश्व ? प्राशं प्रगता आशाः कस्यापि वस्तुनः आकांक्षा यस्मात् सः प्राशः तं प्राशं ४, इति अर्थचतुष्टयं ज्ञेयम् । पुनः किंविशिष्टं पाव ? 'कर्मघनमुक्तम्' कर्माणि ज्ञानावरणीयादीनि अष्ट तानि घना इव घना मेघाः कर्मघनाः, अयं भावः-जीवः चन्द्रः, कर्माणि मेघपटलानि तानि ज्ञानरूपकिरणान् आच्छादयन्ति ततः कर्मणां मेघोपमा दत्ता, तेभ्यः कर्मघनेभ्यो मुक्तः कर्मघनमुक्तस्तं । अथवा किंविशिष्टं पाव ? प्राकृतत्वेन आर्षप्रयोगाद्वा विशेषणस्य परनिपातात् धनकर्ममुक्त, घनानि दीर्घकालस्थितिकानि बहुप्रदेशाग्राणि वा यानि कर्माणि घनकर्माणि तैर्मुक्तम् उत्पन्नकेवलज्ञानमित्यर्थः । पुनः किंविशिष्ट पाव ? 'विषधरविषनि शं' विषधराः अनन्त-वासुकि-कर्कोट-पम-महापन-शंखादयः तेषां विषं पार्थिवादिभेदभिन्न निर्नाशयतीति निश्चित अपहरतीति विषधरविषनिर्नाशस्तं वि० । यतो भगवन्नाममंत्रजापो हि सर्वविषधरविषनाशकृत् प्रतीत एव मान्त्रिकादीनां । अथवा विषं पानीयं प्रस्तावात् मणिकर्णिकाजलं तत्र 'हरं' इति गृहं निवासो यस्य स विषगृहः, प्रायेण वाणारसीनगरवासिनः पश्चाग्नितपश्चरणं मणिकर्णिकातीरे एवं कुर्वाणा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59