Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तस्मरणस्तवः। प्रणाममात्रव्यापारः मनुष्याः शीघ्रं हितं मनसा ईप्सितं यत्स्थानं पदं प्राप्ताः । किंविशिष्टाः मनुष्याः १ 'अविलनविभवसारा' अविलुप्तविभवसाराः, विलुप्तं मुषितं विभवसारं उत्कृष्टधनं येषां ते विलुप्तविभवसाराः । अथवा विलुप्तो विभव एव सारो बलं येषां ते विलुप्तविभवसाराः । न विलुप्तविभवसारा अविलुप्तविभवसाराः । पुनः किंविशिष्टाः? व्यपगतविघ्नाः,व्यपगताः विघ्नाःशत्रुकृतप्रहारादिका येभ्यो येषां वा ते व्यपगतविघ्नाः,न केवलं भगवत्प्रणाममाहास्यात् धनस्यैव रक्षा भवति, किन्तु शत्रुकृतप्रहारादिकमपि न तेषु प्रभवति इत्यर्थः । कासु ? अटवीषु-अरण्येषु । किंविशिष्टासु अटवीषु ? 'भिल्लतक्करपुलिंदसद्लसद्दभीमासु' । भिल्ला:-पल्लीवास्तव्याः तस्कराश्चोराः पुलिंदावनेचराः शार्दूला-व्याघ्राः। ततो द्वन्द्वः कार्यः । भिल्लाश्च तस्कराश्च पुलिंदाश्च शार्दूलाश्च भिल्लतस्करपुलिंदशाVलास्तेषां शब्दास्तत्र भिल्लानां हत हत, तस्कराणां गृह्णीत गृह्णीत, इत्यादिरूपाः । शार्दूलानां गुंजारवाः तैीमा रौद्रास्तासु । पुनः किंविशिष्टासु अटवीषु, ? 'भयविहलवुन्नकायरउल्लू रिअपहिअसत्थासु' । भयेन विह्वलाः भयविहलाः । पुनः 'वुन्नत्ति' विषण्णाः। विषण्णशब्दस्य प्राकृते वुन्नादेशः (प्रा० ४।४२१ पृ. २३१)। ततो विशेषेण कर्मधारयः । भयविह्वलाश्च ते वुन्नाश्च भयविह्वलवुन्नाः। तथा अकारप्रश्लेषात् न कातरा अकातराः भिल्लादयः तैः 'उल्लूरिता' लंटिता छिन्ना वा पथिकानां सार्था यासु ताः भय० । एतावता यासु अटवीसु भयविह्वलानां वुन्नानां पथिकानां सार्थाः भिल्लादिभिर्खण्टिताः सन्ति, विशेषणव्यत्ययस्तु प्राकृतत्वात् ॥१०-११॥ अथ सिंहभयाऽपहारमाह
पज्जलिआनलनयणं, दूरविआरिअमुहं महाकायं । नहकुलिसघायवियलिय,-गइंदकुंभत्थलाभोरं ॥१२॥. .. पणयससंभमपस्थिव-नहमणिमाणिकपडिअपडिमस्स।
तुह वयणपहरणधरा, सीहं कुद्धपि न गणंति ॥१३॥ व्याख्या हे श्रीपार्श्व ! तव वचनप्रहरणधराः पुरुषाः सिंहं क्रुद्धमपि कोपाटोपभासुरमपि न गणयन्ति । निर्भयहेतुतया संभावयन्ति । 'वचन' आज्ञा त्वया कथितस्य मार्गस्य सेवना, अथवा तव नाममन्त्रस्मरणरूपा सैव प्रहरणं अमोघं आयुधं तद् धरन्तीति तव वचनाहरणधराः । शस्त्रभृतो वीराः सिंहं तृणायाऽपि न मन्यन्ते । किंविशिष्टस्य तव ? 'पणयससंभमपत्थिवनहमणिमाणिक्कपडिअपडिमस्स'। प्रणताः-नन्तुं आरब्धा ससंभ्रमा आदरसहिताः, ततः प्रणताश्च ससंभ्रमाश्च ये पार्थिवाः पृथिवीपतयः । अथवा पृथिव्यां ख्याता विरव्याताः पार्थिवा इन्द्रादयः तेषां नखमणिमाणिक्येषु पतिता-निविष्टा प्रतिमा प्रतिबिम्ब यस्य सः प्रणतससंभ्रमपार्थिवनखमणिमाणिक्यपतितप्रतिमस्तस्य प्र० । मणिषु रत्नेषु मध्ये माणिक्यानि जात्यरत्नानीत्यर्थः । नखा एव खच्छत्वात् मणिमाणिक्यानि नखमणिमाणिक्यानि यस्य नखरत्नेषु प्रणमन्तः प्रार्थिवाः प्रतिबिम्बिताः । अथवा प्रणतससंभ्रमपार्थिवानां नम इव नभो-मस्तकं भूमध्यादुपरितनं स्थानं आकाशतया मन्यते । अत्र मणयः-चन्द्रकान्ताद्याः, माणिक्यानि च कर्केतनादीनि तेषु प्रतिता प्रतिमा-बिंब यस्य भगवानिव तत्र प्रतिबिम्बित इत्यर्थः। घटते च प्रणमतां शिरोरत्नेषु प्रणमनीयस्य प्रतिबिंबः । तथा च भट्टलक्ष्मीधरः--
___ "पुनातु पादान्तपतद्धरित्री-सीमन्तरत्नप्रतिबिम्बितो वः ।
तन्मस्तकारूढमुरारिभार-निरस्तिहेतोरिव चक्रपाणिः ॥१॥" किंविशिष्ट सिंह ? 'पज्जलिआनलनयणं । प्रज्वलितः ज्वलितुं आरब्धः अनलो-वह्निः तद्वत् रक्तत्वदीप्तत्वसाधान्नयने-लोचने यस्य स प्रज्वलितानलनयनस्तं प्र०। किंविशिष्टं सिंह ? दूरविआरिअमुहं 'दूरं
स०४
For Private And Personal Use Only

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59