Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या-तत्पट्टे 'श्रीवर्धमानसूरिः' शरच्छशांकवत् सुखजनको जीयात् । सुगमं । किंविशिष्टः श्रीवर्धमानसूरिः ? 'पयडीकयसूरिमंलमाहप्पो', प्रकटीकृतं सूरिमन्त्रस्य माहात्म्थं येन स प्रकटीकृतसूरिमन्त्रमाहात्म्यः । पुनः किंविशिष्टः श्रीवर्धमानसूरिः ? 'पडियकसायपसरो' प्रतिहतो दूरीकृतः कषायाणां क्रोधादीनां प्रसरो येन स प्रतिहतकषायप्रसरः, येन श्रीअर्बुदाचले षण्मासान् आचामाम्लकरणेन सूरिमन्त्रशुद्धकरणार्थ धरणेन्द्र आराघितः । तेनापि प्रत्यक्षीभूतेन सीमन्धरस्वामिपार्श्व गत्वा सूरिमन्त्रं शुद्धं कारयित्वा आगत्य श्रीवर्धमानसूरये रिमन्त्रः समर्पितः । ततो गच्छोन्नतिर्बभूवेति ‘पयडीकयसूरिमंतमाहप्पो' इति विशेषणस्य परमार्थः ॥८॥ अथ वसतिमार्गप्रकाशकं श्रीजिनेश्वरसूरिं गाथात्रयेण स्तुवन्नाह सुहसीलचोरचप्परणपञ्चलो निचलो जिणमयंमि । जुगपवरसुद्धसिद्धंतजाणओ पणयसुगुणजणो ॥९॥ पुरओ दुल्लहमहिवल्लहस्स, अणहिल्लवाडए पयडं । मुक्का वियारिकणं, सीहेण दवलिंगि गया ॥१०॥ इसमच्छेरयनिसि विप्फुरंतसच्छंदसूरिमयतिमिरं। सूरेण व सूरिजिणेसरेण हयमहिअवोसेण ॥११॥ ___ व्याख्या-यः श्रीजिनेश्वरसूतिः एवंविधः आसीत् । किंविशिष्टः जिनेश्वरसूरिः ? 'सुहसीलचोरचप्परणपचलो"। सुखशीला साधुवेषधारिणो द्रव्यलिंगिनः ते एव चौराः विश्वस्तभक्तलोकानां बोधिबीजरूपरत्नानां हरणात् , तेषां 'चप्परणं' निराकरणं तस्मिन् ‘पच्चलः' समर्थः, तेषां मतस्य निर्लोठनात् । अत्र 'चप्परण-निच्चल'शब्दो देशीनाममालावचनौ। पुनः किंविशिष्टः श्रीजिनेश्वरसूरिः ? जिनमते निश्चलः भगवद्भाषितसिद्धान्ते यथोक्तक्रियाकरणे च स्थिरः । पुनः किंविशिष्टः श्रीजिनेश्वरसूरिः ? 'जुगपवरसुद्धसिद्धंतजाणओ' युगप्रवरस्य युगप्रधानस्य श्रीसुधर्मस्वामिनः शुद्धो निर्दोषो यः सिद्धान्तः तस्य ज्ञाता। पुनः किंविशिष्टः श्रीजिनेश्वरसूरिः ? 'प्रणतसुगुणजनः' प्रणताः सुगुणाः शोभनगुणवन्तो जना यस्य सः प्रणतसुगुणजनः ॥९॥ पुनर्येनेति शेषः अणहिल्लपाटके श्रीपत्तने नगरे दुर्लभमहीपतेर्दुर्लभनाम्नो राज्ञः पुरत अग्रे द्रव्यलिंगिनः शिथिलाचाराः प्रत्युत्तरदानेन निराकृताः सन्तो मुक्ताः । किं कृत्वा ? 'विआरिऊणं' विचार्य अर्थान्तरे च द्रव्यलिंगिभिः समं वसतिवासस्थापनादिविचारं कृत्वा प्रकटं सर्वसभालोकसमक्षं, केन इव के ? यथा सिंहेन इव गजा विदार्य मुक्ताः। 'द्रव्यलिंगि' इत्यत्र प्राकृतत्वाजस्लोपो ज्ञेयः ॥१०॥ पुनर्येनेति अत्रापि शेषः येन सूरिजिनेश्वरेण सूरेण इव दशमाश्चर्यनिशि 'विस्फुरत्स्वच्छन्दसूरिमततिमिरं स्वच्छन्दाः स्वेच्छाचारिणो ये सूरयः चतुरशीति८४ संख्याश्चैत्यवासिनः तेषां मतं वसतिवासनिषेधादिकदामहरूपं तदेव तिमिरं अन्धकार, विस्फुरश्च तत् स्वच्छन्दसूरिमततिमिरं चेति विस्फुरत्स्वच्छन्दसूरिमततिमिरम् । किंविशिष्टेन सूरिजिनेश्वरेण ? 'अहितदोषेण' अहिताः असमंता दोषा रागादयो यस्य स अहितदोषस्तेन अहितदोषेण,सूरपक्षे अहिता दोषा रात्रिर्यस्य सः अहितदोषः तेन अहितदोषेण । अत्रेदं रहस्यम्-श्रीपत्तननगरे श्रीदुर्लभराजसभायां अशीत्यधिकदशशतमित(१०८०)वर्षे चैत्यवासिभिः समं वादं कृत्वा वसतिस्थापनापूर्व अतिशयकठोरक्रियादर्शनपूर्व च खरतरबिरुदं प्राप्तं । एवं तपागच्छीयश्रीसोमसुन्दरसूरि-तच्छिष्य–महोपाध्याय-श्रीचारित्ररत्नगणि-तच्छिष्यश्रीसोमधर्मगणिविरचिते श्रीउपदेशसप्ततिग्रन्थे द्वितीयाधिकारे सप्तमोपदेशेऽपि प्रोक्तमस्ति । . ___ तद्यथा-"पुरा श्रीपत्तने राज्यं, कुर्वाणे भीमभूफ्तौ, अभूवन् भूतले स्याताः, श्रीजिनेश्वरसूरयः ॥१॥ सूरयोऽभयदेवाख्यास्तेषां पट्टे दिदीपिरे । येभ्यः प्रतिष्ठामाफ्नो, गच्छः खरतराभिषः ॥२॥ इति ॥११॥ (सूरेण इव पृ. ३९-२४ अतोऽग्रे 'सूर्येण इव दशमाश्चर्यनिशि विस्फुरत्स्वच्छन्दसूरिमततिमिरं हतं' इत्युक्तिः । अथ समासकरणेन अर्थः कथ्यते-सूरिश्चासौ जिनेश्वरश्च सूरिजिनेश्वरस्तेन सूरिजिनेश्वरेण, दशमं च तत् आश्चर्य च=असंयतपूजालक्षणं तदेव निट-निशि तस्यां (यावत् 'दशमाश्चर्यनिशि) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59