Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपूर्वाचायविरचितः सुखस्य सन्दोहः समूहो यैस्ते प्रणतांगिवर्गदापितसुखसन्दोहाः । पुनः कीदृशाः ? सुगुणगेहाः सुष्टु-शोमना गुणाः सुगुणा आचार्यसम्बन्धिनः षट्त्रिंशत् तेषां गेहाः गृहाणि । पुनः कीदृशा ? प्राप्तसुयतित्वशोभाः, प्राप्ता सुयतित्वस्य सुयतित्वेन का शोभा यैस्ते तथा । पुनः कीदृशाः ? समस्तपरतीर्थिजनितसंक्षोभाः, समस्ताना परतीर्थिनां अन्यदर्शनिनां जन्ति-उत्पादितः संक्षोभो यैस्ते समस्तपरतीर्थिजनितसंक्षोभाः । पुनः कीदृशाः ? प्रतिभमलोभयोधाः, प्रतिभमो लोभ एव योधो यैस्ते प्रतिभमलोभयोधाः । पुनः कीदृशाः ? दर्शितसुमहार्थशास्त्रोंघाः, दर्शितः-सुमहानर्थो येषु तानि सुमहानि यानि शास्त्राणि सुमहार्थशास्त्राणि तेषां अधः-समूहो यस्तै दर्शितसुमहार्थशास्त्रौघाः । पुनः कीदृशाः ? परिहृतसत्त्वबाधाः, परिहृता दूरीकृता सत्त्वाना-प्राणिनां बाधा यैस्ते परिहृतसत्त्ववाधाः । पुनः कीदृशाः ? हतदुःखदाघाः, हतो दुःखानां दाघो-यैस्ते हतदुःखदायाः । पुनः कीदृशाः ? शिवाग्रतरुशाखाः, शिवमेव-मोक्ष एव आम्रतरुस्तस्य शाखा इव शाखाः शि० । पुनः कीदृशाः ? संप्रापिता सलामाः,संप्रापितः सुखस्य लाभो यैस्ते संप्रापितसुखलामाः । पुनः कीदृशाः ? ।क्षीरोदनिधिवत् अगाधाः क्षीरसमुद्रक्त् अगाधा अलब्धमध्याः ॥४॥ पुनः कीदृशाः ? सगुणजनजनितपूजाः सगुणजनैर्गुणवन्मनुप्यैर्जनिता पूजा येां से सगुणजनजनितपूजाः । अत्र-प्राकृतत्वात् जप्त्य द्वित्वं । पुनः कीदृशाः ? सद्योनिरवद्यगृहीतप्रवन्याः, सदः-शीघ्र संवेगवशात् निरवद्या-निःपापा निरतिचास गृहीता अंगीकृता प्रव्रज्यादीक्षा यैस्ते स० । प्राकृतत्वात् कान्तस्य परनिपातः। पुनः कीदृशाः ? शिवसुखसाधनसज्जाः शिवसुखस्यमोक्षसुखस्य साधनानि ज्ञानदर्शनचारित्राणि तेषां साधने सज्जाः सावधानाः शि० । पुनः कीदृशाः ! भवगुरुगिरिचूरणे, भव एव संसार एव गुरुर्गरिष्ठो गिरिः पर्वतस्तस्य चूरणे दलने वज्राः ॥५॥ पुनः कीदृशाः ? गुणगणनिवहाः' गुणानां गणं समूहं नितरां वहन्ति धारयन्तीति गुण । पुनः कीदृशाः ? 'सुरेन्द्रविहितमहाः' । सुरेन्ट्रैर्देवेन्द्रर्विहितः कृतो महः पूजा येषां ते सु० । इति संक्षेपेण गाथापश्चकार्थः सुगमश्चायं ततो न विस्तरतया व्याख्याताः ॥६॥ अथ अविच्छिन्नपरंपरायां तं आसन्नोपकारकारिणं खकीय युगप्रधानाष्टकं स्तोतुमाह
पडिवजिअद्धिजदेवो, देवावरिओ दुरंतभवहारी ।
सिरिनेमचंबसूरी, उज्जोयणसूरिणो सुगुरू ॥७॥ व्याख्या-श्रीदेवाचार्यो जीयादिति शेषः । एवं जीयादिति क्रियापदं त्रिष्वपि कर्तृपदेषु योज्यम् , परं अध्याहारात् । किविशिष्टः श्रीदेवाचार्यः । 'पडिवज्जियजिणदेवो' प्रतिपन्नजिनदेवः प्रतिपन्नः अंगीकृतो जिनो वीतरागो देवो येन सः प्र० । एतेन कुदर्शनिन आचार्यस्य त्यागेन जैनदर्शनस्थो जातः, इति सूचितं । ततस्तत्पट्टे श्रीनेमचन्द्रसूरिर्जीयात् । किंविशिष्टः श्रीनेमचन्द्रसूरिः ? 'दुरन्तभवहारी' । दुर्दुष्टः अन्तो यस्य स दुरन्तः, स चासौ भवश्च संसारो दुरन्तभवः, तं हरतीत्येवं शीलो दुरन्तभवहारी । तत्पट्टे श्रीउद्योतनसूरिजीयात् । सूत्रे बहुवचनं प्राकृतत्वात् । किंविशिष्टः श्रीउद्योतनसूरिः ? सुगुरुः-सु सुष्टु शोभनो गुरुः यतश्चैत्यवसित्यागेन सद्गुरुसमीपे उपसंग्रहणात् शुद्धचारित्री जीयात् ॥७॥ अथ श्रीवर्धमानसूरिस्तुतिमाह
सिरिषद्धमाणसूरी, फ्यडीक्यसूरिमंतमाहप्पो । पडित्यकसायपसरोसरयससव सुजणमोसा
For Private And Personal Use Only

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59