Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तस्मरणस्तवः ।
२७
शत्रूणां निवहाः–समूहा रिपुनिवहाः । दर्पोक्षुराश्व ते रिपुनिवहाश्च दर्पोदधुररिपुनिवहाः, निर्जिता दर्पोक्षुररिपुनिवहा यैस्ते निर्जितदर्पोधुररिपुनिवहाः । किंविशिष्टे समरे ? ' तिक्खखग्गाभिघायपविद्ध उद्घअकबंधे' । तीक्ष्णाः तीक्ष्णधारा ये खड्गास्तेषां ये अभिघाताः प्रहाराः तैः पविद्ध' त्ति पविद्धशब्देन अयन्त्रितार्थवृत्तित्वात् अयन्त्रितं उच्छृंखलं यथा भवत्येवं उद्घता इतस्ततो नर्तितुं प्रवृत्ताः, उद्धतपाठे उद्धताः कबंधाः शीर्षरहितनृत्यादिक्रियायुक्ता देहा यत्र सः तीक्ष्णखड्गाभिघातपविद्धोद्भुतकबन्धस्तस्मिन् ती० । अनेन विशेषणेन महासंग्रामो ज्ञापितः,यत्र हि पराः सहस्राः महारथा निपतन्ति तत्रैव कबन्धानां नृत्यं रूढम् । पुनः किंविशिष्टे समरे ? 'कुंतविणिभिन्नकरिकलहमुक्कसिक्कारपउरंमि' । कुतैर्भलैः शस्त्रविशेषैः विनिर्भिन्ना विदारितांगा ये करिकलभाः करिणां हस्तिनां कलभाः त्रिंशद्वर्षीया हस्तिनः तैर्मुक्ता मनाक् प्रगल्भतया निसृष्टा ये शीत्काराः शीत्कृतरवाः तैः प्रचुरो बहुलः, क्वचित्पवरेति पाठस्तत्र तैः प्रवरः प्रधानस्तस्मिन् 'कुन्तविनिर्भिन्नकरिकलभमुक्तसीत्कारप्रचुरे' । अत्र 'विनिर्भिन्न' इति शब्दे 'अंत्यव्यञ्जनस्य' (प्रा० १।११ पृ. ३५) इति प्राकृतसूत्रेण निरो रलुक् ॥ १६ - १७॥ साम्प्रतं पूर्वोक्तानामेव भयानां संग्रहमाह
रोग - जेल- जलैण-विसहर, - चोरारि - महंद-गय-रण-भयाई । पास जिणनामसंकित्तणेण, पसमति सव्वाई ॥ १८ ॥
५,
I
व्याख्या - रोगादिकभयानि " सव्वाई पास जिणनामसंकित्तणेण पसमंति" रोगादिभयानि सर्वाणि निःशेषाणि पार्श्वजिननामसंकीर्तनेन प्रशाम्यन्ति प्रकर्षेण अपुनरुत्थानेन शाम्यन्ति विरमन्ति, पार्श्वजिनस्य नाम - अभिधानं पार्श्वजिननाम तस्य संकीर्तनं- संशब्दनं उच्चारणमिति यावत् तेन हेतुभूतेनं रोगाश्च कुष्ठादयः १, जलं च समुद्रादिपानीयं २, ज्वलनश्च दवाग्न्यादि ३, विषधराः अष्टनागकुलजाः सर्पाः ४, चौरा एव अस्यः चौरारयः मृगेन्द्र:- सिंहः ६, गजो - हस्ती ७, रणः - संग्रामः ८ । ततो द्वन्द्वे कृते रोगजलज्वलन विषधरचोरारि मृगेन्द्रगजरणास्तेभ्यो भयानि रोगादिभयानि 'द्वन्द्वान्ते श्रूयमाणः शब्दः सर्वत्र संबध्यते इत्युक्तत्वात् रोगभयानि जलभयानि, इत्यादि । अत्र च वृद्धविवरणादौ उक्तः कश्चित् मंत्रः प्रदर्श्यते । तथाहि – “ ॐ ह्रीं नमिऊण पास ! विसहरवसह जिणफुलिंग ह्रीं रोगजलजलणविसहरचोरारिमइंदगयरणभयाई पासजिणनामसंकित्तणेण पसमंति सव्वाइं मम स्वाहा” ॥ इति । अयं च महामन्त्रोऽस्मिन्नेव सूत्रे पृथक्पदवर्णादिविभागेन कविना न्यस्तो - ऽस्ति । तथाहि - 'सडिये' तिद्वितीयगाथायास्तृतीयपदे अनलशब्देन अग्निबीजम् ओंकारः । तथा " जगगुरुणो कमजुयलं” इत्यादिसप्तमगाथायाः 'निव्वाविअसयलतिहुयणाभोअं' इति द्वितीयपदे त्रिभुवनशब्देन त्रैलोक्यबीजं ह्रींकारः । तथा 'नमिऊणे' ति प्रथमपदे आदौ एव 'नमिऊण' इति । तथा 'अविदलिअजाणवत्ते' ति पंचमगाथायाः तृतीयपदे 'पास' इति । तथा 'विसहर' इति वर्णचतुष्टयं तु 'सडिअ ' इत्यादि द्वितीयगाथायां पृथक् पृथक् सूचितमस्ति । तथाहि - 'विवण्णलावण्णा' । अत्र 'वि' इति वर्णः १ 'सडिअ ' इत्यत्र 'स' इति वर्णः २ 'नहमुह' इत्यत्र 'ह' वर्णः ३ । तथा 'करचलण' इत्यत्र '२' वर्णः ४ । तथा 'अविदलिअ' इत्यादि पञ्चमगाथायास्तृतीयपदे, 'पासजिण' इत्यत्र 'जिण ' इति पदं, तथा 'सडिअ ' इत्यादि द्वितीयगाथायाश्चतुर्थपदे, 'फुलिंगनिद्दड्ड' इत्यत्र फुलिंगपदं, तथा 'जो पढइ जो अ निसुणई' इति प्रान्त्यैकविंशतितमगाथायाश्चतुर्थपदे, 'सयलभुवणच्चिअचलणो' अत्र सकलभुवनपदेन ह्रींकारः तथा अग्रेतनपदानि 'रोगजलजलणविसहर' इत्यादि गाथायामेव सन्ति । तथा 'मम' इति वर्णद्वयं व्यस्तं पृथक् पृथक् वर्तते । तत्र एकस्तु 'म' वर्णः प्रथमगाथायास्तृतीयपदे'चरणजुअलं महाभय' अत्र, द्वितीयस्तु 'म' वर्णः चतुर्थगाथायाश्चतुर्थपदे 'निजामयमुक्कवावारे' इति, तथा 'खरपवणु
For Private And Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59