Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपूर्वाचार्यविरचितः भत्यर्थे विदारितं प्रसारितं मुखं येन स दूरविदारितमुखस्तं दूर० प्रसारितमुखकुहरमित्यर्थः । पुनः किंविशिष्ट सिंह ? महाकायं महान् कायः शरीरं यस्य स महाकायस्तं पुष्टांगमित्यर्थः। अथवा "कै गैरै शब्दे" कानं कायः-शब्दो महान् कायः क्ष्वेडानादो यस्य स.महाकायस्त महा० । पुनः किंविशिष्ट सिंह ? नहकुलिसपायवियलियगईंदकुंभत्थलाभोयं' नखा एव कुलिशानि वज्राणि नखकुलिशानि तेषां धातः प्रहारस्तेन कृत्वा विदलितः पाटितः गजेन्द्राणां महागजानां कुंभस्थलाभोगः कुंभतटविस्तारो येन सः नखकुलिशघातविदलितगजेन्द्रकुंभस्थलाभोगस्त० ॥१२-१३॥ अथ गजभयापहारमाह ससिधवलवंतमुसलं, दीहकरुल्लालवुड्डिउच्छाहं । महुपिंगनयणजुयलं, ससलिलनवजलहरायारं ॥१४॥ भीमं महागइंद, अचासन्नपि ते न विगणंति । जे तुम्ह चलणजुयलं, मुणिवइ ! तुंगं समल्लीणा ॥१५॥ युग्मम् ॥ व्याख्या-हे मुनिपते ! हे मुनीन्द्र ! ये नराः तव चरणयुगलं तुंगं समालीनाः सम्यक् आश्रिताः ते नरा अत्यासन्नमपि-अत्यन्तनिकटप्राप्तमपि गजेन्द्रं हस्तिराजं न विगणयंति भयहेतुतया न भावयन्ति । मुनीनां पतिः मुनिपतिः तस्य सम्बोधनं हे मुनिपते ! श्रीपार्श्वनाथ ! चरणयोर्युगलं चरणयुगलं तत् च० । किंविशिष्ट चरणयुगलं 'तुंग' गुणैरुच्चैस्तर, यो किल उन्नतपर्वतादिक समाश्रयति तस्य अत्यासन्नादपि गजेन्द्रात् भयं न स्यात् । पुनः किंविशिष्ट गजेन्द्रम् ? भीम-रौद्रम् । पुनः किंविशिष्ट गजेन्द्रं ? 'ससिधवलदन्तमुसलं' शशी-चन्द्रस्तद्वत् धवलौ शशिधवलौ । उपमानं सामान्यैरिति समासः, दन्तौ मुसलौ इव दन्तमुसलौ, शशिधवलौ दन्तमुसलौ यस्य सः शशिधवलदन्तमुसलस्त श० । पुनः किंविशिष्ट गजेन्द्रं ! दीहकरुल्लालवुड्डिउच्छाह' दीर्घः प्रलम्बः यः करः-शुण्डादण्डः तस्य उल्लालनं उच्छालनं तेन वर्धितो-वृद्धि प्रापितः उत्साहः प्रगल्भता यस्य सः दीर्घकरोल्लालवर्धितोत्साहस्तं दी० । पुनः किंविशिष्टं गजेन्द्रम् ? 'महुपिंगनयणजुअलं'। मधु-माक्षिकं तद्वत् पिंगलवर्ण नयनयुगलं यस्य सः मधुपिंगनयनयुगलस्तं म० । पुनः किंविशिष्टं गजेन्द्र ? 'ससलिलनवजलहरायारं'। सह सलिलेन पानीयेन वर्तते यः सः ससलिलः पानीयपूर्णः यो नवजलधरो-नवीनमेघः तस्य आकारः इव आकृतिर्यस्य सः श्यामवर्णत्वात् ससलिलनवजलधराकारस्तं स० । अथवा स्वसलिलेन स्वकीयमदजलेन नवजलधराकारं मदजलवर्षणात् ॥१४-१५॥ अथ संग्रामभयापहारमाह समरंमि तिक्खखग्गा-भिघायपविद्धउद्धृयकवंधे। कुंतविणिभिन्नकरिकलहमुक्कसिकारपउरंमि ॥१६॥ निजियदप्पुर्धररिउ, नरिंदनिवहा भडा जसं धवलं । पावंति पावपसमण ! पासजिण! तुह पभावेण ॥१७॥ युग्मम् ॥ व्याख्या हे श्रीपार्श्वजिन ! भटाः-सुभटाः 'तुह प्पभावेण तव प्रसादेन 'समरमि' एवंविधे संग्रामे जसं यशः प्राप्नुवन्ति पराक्रमसाधुवादं लभन्ते । हे पापप्रशमन !, पापं-अशुभं कर्म यदुदयात्पराजयो भवति तत् प्रशमयति-शमं नयतीति पापप्रशमनस्तस्य संबोधनं हे पापप्रशमन। ! किंविशिष्टं यशः ! धवलं उज्ज्वलं । किंविशिष्टा भटाः ? 'निजियदप्पुर्धररिउनरिंदनिवहा' । दर्पण-अभिमानेन उद्धराः उन्नता दर्पोधुरा रिपूणां For Private And Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59