Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपूर्षाचार्यविरचिता धुअवणदव' इत्यादि षष्ठगाथायाः प्रथमपदे पवनशब्देन वायुबीज 'स्वा' इति तथा 'पणयससंभमेति त्रयोदशगाथाया द्वितीयपदे "नहमणि" इत्यत्र नभःशब्देन द्वितीयार्थकरणे नभोवीज 'हा' इति स्पष्टो वर्ण इति "क्षिप ॐस्वाहा” पंचभूतबीजानि । प्रभावस्तु अस्य महामन्त्रस्य रोगजलजलणे'ति गाथोक्त एव ज्ञातव्यः ॥१८॥ अथ विशेषेण निगमनं अभिधित्सुः आचार्यः गाथया प्रस्तुतस्तवस्य माहात्म्यमाह___ एवं महाभयहरं पासजिणिदस्स संथवमुआरं। भविअजणाणंदयरं कल्लाणपरंपरनिहाणं ॥१९॥ व्याख्या-एकविंशतितमगाथाया उक्तिस्तथाहि-'पाश्चः' श्रीपार्श्वनाथः पापं अशुभं प्रशमयतु प्रकर्षेण उपशमयतु । कयोः ? 'ताणं'ति तयोः, अत्र द्विवचने बहुवचनं प्राकृतत्वात् (प्रा० सू०३।१३० पृ. १३३) । कयोः ? यः कश्चित् एवं पूर्वोक्ताष्टादशगाथारूपं पार्श्वजिनेन्द्रस्य संस्तवं च पठति-स्वर१व्यञ्जन२मात्रा३घोष४विशुद्धतया व्यक्तं वाचमारोपयति, पुनर्यश्च तेन पठ्यमानं निशृणोति, प्राकृते निपूर्वस्य शृणोति' क्रियापदस्य विशिष्टश्रवणार्थत्वात् उपयोगपूर्वकं शृणोति-आकर्णयति तयोः। चकारः समुच्चये ततः कवेः प्रस्तुतस्तोत्रकर्तुरपि पापं प्रशमयतु। किं विशिष्टस्य कवेः मानतुंगस्य 'मानतुंग' इत्यभिधानस्य । किंविशिष्टः पार्श्वः ? 'सयलभुवणच्चियचलणो'। सकलं समस्तं यद् भुवनं जगत् तेन अर्चितौ चलनौ पादौ यस्य सः सकलभुवनार्चितचरणः । भुवनशब्देन अत्र भुवनजना गृह्यन्ते । “तात्स्थ्यात् तद्व्यपदेश" इतिन्यायात् । किंविशिष्टं संस्तवं ? महाभयं हरति अपनयति इति महाभयहरस्त म०। अथवा महाभयपदस्य अयमर्थः-महाः उत्सवाः अभयं भयाभावस्तेषां गृहं-निवासभूतं । गृहशब्दस्य घरादेशः । (प्रा० २।१४४ पृ.७७) ततः प्राकृते घस्य हत्वे (प्रा०१।१८७ पृ. ४२) महाभयहरं । पुनः किंविशिष्ट संस्तवं ? 'भवियजणाणंदयर' भवन्ति गुणभाजनं इति भव्याः-सिद्धिगमनयोग्याः ते च अव्यवहारराशिनिगोदा अपि भवन्ति, भव्याः सन्तिः परं ते न कदाचिदपि सेत्स्यन्ति । यदुक्तवन्तो वृद्धाः "सामग्गिअभावाओ, ववहारिअरासिअप्पवेसाओ भव्वा वि ते अणंता, जे सिद्धिसुहं न पावंति ॥१॥” इति ततस्तन्निरासाय आह-ते भव्याः के. जनाः जायंते व्यवहारिकराशौ देवगतौ मनुष्यगतौ घेति जनाः, नरकगतितिर्यग्गतिस्थानां संस्तवनस्य पठनश्रवणयोरभावेन तस्मिन् भवे मोक्षगमनाभावः । ततो भव्याश्च ते जनाध भव्यजनास्तेषां आनंदं आहादं करोतीति भव्यजनानन्दकरस्तं भ० । पुनः किंविशिष्टं स्तवं ? उदारं-शब्दतोऽर्थतश्च महान्तम् उदाराभिधानमुदाराभिधेयं चेत्यर्थः, पुनः किंविशिष्टं संस्तवम् ? 'कल्लाणपरंपरनिहाणं ।' कल्याणानां सम्पदुत्कर्षाणां परंपरा उत्तरोत्तरा तारतम्येन श्रेष्ठा तस्या निधानमिव निधानं स्थापितधनभाजनं कल्याणपरंपरनिधानं “दीर्घह्रस्वौ मिथो वृत्तौ" (प्रा० ११४पृ.३२) इति प्राकृतसूत्रेण इस्वत्वम् ॥१९॥ अथ प्रस्तुतस्तवनस्य माहात्म्यपूर्व येषु स्थानेषु स्मयते तानि स्थानान्याह-कासु अवस्थासु पठति निशृणोति ? इत्याह-- रायमय-जख-रक्खस,-कुसुमिण-दुस्सउण-रिक्षपीडास। संझासु दोसु पंथे, उवसग्गे तह य रयणीसु ॥२०॥ मो पढइ जो अनिसुणइ, ताण करणो य माणतुंगस्स। पासो पापं पसमेउ, सपलभुषणचियालगते ॥२१॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59