Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०
श्रीपूर्वाचार्यविरचितः अथ प्रथमपरमेष्ठिनं वर्णयन्नाह
नासियसयलकिलेसा, निहयकुलेसा पसत्थसुहलेसा।
सिरिवद्धमाणतित्थस्स मंगलं दितु ते अरिहा ॥२॥ व्याख्या ते अर्हन्तः प्रथमपरमेष्ठिनः श्रीवर्धमानतीर्थस्य-श्रीमहावीरसंघस्य मंगलं कल्याणं ददतु । किंविशिष्टा अर्हन्तः ? 'नासियसयलकिलेसा' नाशिताः सकलाः क्लेशाः यैस्ते नाशितसकलक्लेशाः । पुनः किंविशिष्टा अर्हन्तः ? 'निहतकुलेसा' निहताः कुलेश्या अप्रशस्तकृष्णादिलेश्याः, पुनः किंविशिष्टा अर्हन्तः ! 'पसत्थसुहलेसा' प्रशस्ताः शुभाः शुक्ला लेश्या येषां ते प्रशस्तशुभलेश्याः । अथवा प्रशस्ताः सुखाः सुखकारिण्यो लेश्या येषां ते प्रशस्तसुखलेश्याः ॥२॥ अथ द्वितीयपरमेष्ठिनः सिद्धान् स्तुवन्नाह---
निद्दड़कम्मबीया, बीआ परमिद्विणो गुणसमिद्धा ।
सिद्धा तिजयपसिद्धा, हणंतु दुत्थाणि तिस्थस्स ॥३॥ व्याख्या-द्वितीयाः परमेष्ठिनः सिद्धाः-तीर्थस्य चतुर्विधसंघस्य दौस्थ्यानि घ्नन्तु-नाशयन्तु । किंविशिष्टाः सिद्धाः ? 'निहड्डकम्मबीआ' । निर्दग्धानि निर्मूलितानि भस्मसात्कृतानि कर्माण्येव बीजानि यस्ते निर्दग्धकर्मबीजाः । पुनः किंविशिष्टाः सिद्धाः ? 'गुणसमिद्धा' गुणैरेकत्रिंशद्भिः समृद्धा गुणसमृद्धाः । एकत्रिंशद्गुणानां गाथे इमे
"पडिसेहण-संठाणे, वण्णे गंध-रस-फास-वेए अ । पण-पण-दु-पण-ट्ठ-तिहा, इगतीस अकाय-संग-रुहा ॥१॥" अथवा-"नव दरिसणंमि चत्तारि आउए पंच अमेअंते ।
सेसे दो भेया खीणाभिलावेण गुणतीसं ॥२॥" अनयोथियोः व्याख्यानं यथा-त्र्यस१चतुरस्ररवर्तुल३मंडलाध्यतानां ५ पंचानां संस्थानानां प्रतिषेधः। एवं पञ्चानां वर्णानां कृष्णादीनां प्रतिषेधः १० । तथा गन्धस्य सुरभ्यादिभेदद्वयस्य प्रतिषेधः १२। तथा रसानां कटुकादीनां पञ्चानां प्रतिषेधः १७। तथा स्पर्शानां शीतादीनां अष्टानां प्रतिषेधः २५ । तथा वेदानां त्रिविधानां पुरुषादिवेदानां प्रतिषेधः २८ । अकायो-देहाभावः २९ । असंगमः संगरहितः ३० । अरुहश्च जन्ममरणाभावः ३१ । इति प्रथमगाथाव्याख्यानम् ॥१॥ द्वितीयगाथाव्याख्यानं यथा-नव भेदा दर्शनावरणीयस्य ९। चत्वारो भेदा आयुषः १३॥ पञ्च भेदा ज्ञानावरणीयस्य १८ । पुनः पंच भेदा अन्तरायस्य २३ । शेषे अनुक्ते वेदनीयस्य भेदद्वयं साता-ऽसातरूपं २५ मोहनीयस्यापि भेदद्वयं चारित्रमोहनीय १ दर्शनमोहनीय २ चेति २७ । नामकर्मणोऽपि भेदद्वयं शुभनामकर्म १ अशुभनामकर्मेति २। २९। तथा गोत्रस्यापि भेदद्वयं उच्चैोत्रं नीचैर्गोत्रं चेति २।३१॥ अत्र गाथायां 'खीणाभिलावेणे'ति पाठात् क्षीणाभिलापेन ३१ भेदा वाच्याः। कोऽर्थः ? ज्ञानावरणं कर्म यस्य क्षीणं १, दर्शनावरणं कर्म यस्य क्षीणं, इत्येवं पदद्वयं सर्वत्र वाच्यम् । पुनः किंविशिष्टाः सिद्धाः 'तिजयपसिद्धा' त्रिजगत्प्रसिद्धाः ॥३॥ अथ तृतीयपरमेष्ठिन आचार्यान् स्तुवन्नाह
आयारमायरंता, पंचपयारं सया पयासंता। आयरिया तह तित्थं, निहयकुतित्थं पयासंतु ॥४॥
For Private And Personal Use Only

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59