Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तस्मरणस्तवः ।
३१
व्याख्या - आचार्या आचारे साधवः आचार्याः तृतीयपरमेष्ठिनः 'तीर्थ' चतुर्विधसंघरूपं प्रकाशयन्तु स्फुरत्प्रभावनाप्रभाभिः उद्योतयन्तु । किं कुर्वन्त आचार्याः ? पञ्चप्रकारं आचारं स्वयं आचरन्तः परेभ्यश्च सदा-निरन्तरं प्रकाशयन्तः । पंचाचाराः प्रस्तूयन्ते - ज्ञानाचारः १ दर्शनाचारः २ चारित्राचारः ३ तप आचारः ४ वीर्याचारश्चेति ५ । किंविशिष्टं तीर्थ ? 'निहतकुतीर्थ' निहतं कुतीर्थं येन तत् नि० ॥४॥
अथ चतुर्थपरमेष्ठिनः श्रीउपाध्यायानाह
सम्मसुअवायगा वायगा य सिअवायवायगा वाए। पण डिणी अकए, ऽवणंतु सव्वस्स संघस्स ||५||
व्याख्या - वाचकाः श्रीउपाध्यायाः चतुर्थपरमेष्ठिनः सर्वस्य संघस्य प्रवचनप्रत्यनीकान्-जिनशासनप्रद्वेषिणः अपनयंतु-निर्द्धाटयन्तु । क्व : वादे परदर्शनिभिः समं वादे प्रारब्धे सतीति शेषः । किंविशिष्टा वाचकाः ? 'सिअवायवायगा' स्याद्वादं वदन्तीत्येवंशीलाः स्याद्वादवादकाः । पुनः किंविशिष्टाः वाचकाः ? सम्यक् - श्रुतवाचकाः– सम्यक्प्रकारेण यथा तीर्थंकरगणधरैरर्थसूत्राभ्यामुपदिष्टं तथैव वाचका उपदेशदातारः ||५|| अथ पञ्चमपरमेष्ठिनः साधून् स्तुवन्नाह
निव्वाणसाहणुजय, - साहूणं जणिअसव्वसाहज्जा । तित्थभावगा ते हवंतु परमिट्टिणो जहणो ||६||
व्याख्या- ते यतिनः पञ्चमाः परमेष्ठिनः तीर्थप्रभावकाः भवन्तु, तीर्थस्य चतुर्विधसंघस्य प्रभावकाः उद्योतकारकाः । किंविशिष्टा यतिन: : 'निव्वाणसाहणुज्जयसाहूणं जणियसव्वसाहज्जा' । निर्वाणं - मोक्षस्तस्य साधनं ज्ञानदर्शनचारित्ररूपं, तत्र उद्यता उद्यमकर्तारो ये साधवः ते निर्वाणसाधनोद्यतसाधवः, तेषां जनितं -- उत्पादितं सर्व साहाय्यं - तपस्यादि कुर्वतां सांनिध्यं यैस्ते ॥६॥
अथ ज्ञानदर्शनचारित्राणि स्तोतुं इच्छन् प्रथमं 'सम्यक्त्वे च सति ज्ञानचारित्रे सफले भवेतां' इति हेतोः पूर्वं सम्यक्त्वं स्तुवन्नाह—
जेणाणुगयं नाणं, निव्वाणफलं [करं] च चरणमवि हवइ । तित्थस्स दंसणं तं मंगलमवणेउ सिद्धिकरं ॥७॥
व्याख्या - तव 'दर्शन' सम्यक्त्वं तीर्थस्य अमंगलं, न मंगलं अमंगलं अशोभनं 'अपनयतु' स्फेटयतु । तत् किं ? येन दर्शनेन अनुगतं सहितं सत् ज्ञानं निर्वाणकरं मोक्षकरं भवति । क्वापि 'मोक्षफलं' इति पाठः । न केवलं ज्ञानमेव दर्शनसहितं मोक्षकरं, किन्तु 'चरणमपि' चारित्रमपि दर्शनसहितं एव मोक्षसाधकं भवति । "नाणदंसणंसमाणं” इत्यादिवचनात् ॥७॥
अथ 'सम्यक्त्वे सति क्रियारूपस्य चारित्रस्य प्रवृत्तिः सफला स्यात्' इति ज्ञानं स्तुवन्नाह -
निच्छम्मो सुअधम्मो, समग्गभव्वंगिवग्गकयसम्मो । गुणसुट्ठिअस्स संघस्स मंगलं सम्ममिह दिसउ ॥८॥
व्याख्या - श्रुतधर्मः संघस्य इह मंगलं दिशतु । सम्यक् भव्यरीत्या । किंविशिष्टो धर्मः ? निश्छद्मः निर्गतं छद्म-कपटं यस्मात् स निभ्छद्मो निष्कपटः । पुनः किंविशिष्टो धर्मः ? 'समग्गभव्वंगिवग्गकयसम्मो' । समग्राः––समस्ता ये भव्या अंगिनः प्राणिनः तेषां वर्ग :- समूहः तस्य कृतं शर्म । किंविशिष्टस्य संघस्य ? सुस्थितस्य गुणेषु सु-सुष्टुप्रकारेण स्थितस्य ॥८॥
For Private And Personal Use Only

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59