Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तस्मरणस्तवम् अविदलियजाणवत्ता, खणेण पार्वति इच्छियं कूलं । पासजिणचलणजुयलं, निचं चिअ जे नमति नरा ॥५॥ युग्मम् ॥ व्याख्याः ये नराः 'पार्श्वजिनचरणयुगलं' नमन्ति ते एवंविधाः सन्तोऽपि क्षणेन घटिकाखण्डमात्रेण, हेतौ अत्र तृतीया, 'इप्सितं'-वांछितं कूलं-तटं प्राप्नुवन्ति प्रकर्षण लभन्ते। 'चिअ' शब्दस्य अवधारणत्वात् नित्यमेव अश्रान्तमेव । अथवा एवं व्याख्या कार्या । पार्श्वजिनचलणयुगलं पार्श्वनाथपादुके निच्चं इति नीत्वा आत्मना सह वहनं आरोप्य 'अचिअत्ति' अर्चयित्वा-पूजयित्वा गन्धादिभिः पूजयित्वा ये नमन्ति इति व्याख्येयम् । किंविशिष्टा ये इप्सितं कूलं प्राप्नुवन्ति इत्याह-'दुव्वायखुभियजलनिहिं, अविदलियजाणवत्ता,' दुष्टो वातो दुर्वातः कलिकावातादिस्तेन क्षुभिते जलनिधौ-समुद्रे विशेषणविशेष्यभावाच्च सप्तमीलोपः प्राकृतत्वात् । पुनः किंविशिष्टे जलनिधौ ? 'उद्भटकल्लोलभीषणारावे', उद्भटाः उत्कटा ये कल्लोलाः लहर्यः तेषां संबन्धी भीषणः कर्णयोर्दुःसहत्वात् भयंकरः आरावः शब्दो यस्मिन् सः उद्भटकल्लोलभीषणारावस्तस्मिन् । अथवा एवं व्याख्याः-उद्भटकल्लोलैीषण आरावो यस्मिन् स तस्मिन् । पुनः किं विशिष्टे जलनिधौ ? संभ्रान्तभयविसंस्थुलनिर्यामकमुक्तव्यापारे । संभ्रान्ताः किंकर्तव्यतामूढाः यतो भयविसंस्थुलाः मरणान्तिकं प्राप्ता निर्यामकाः पोतवाहकास्तैर्मुक्तस्त्यक्तो व्यापारः पोतवाहनादिकर्तव्यं यत्र सः संभ्रान्तभयविसंस्थुलनिर्यामकमुक्तव्यापारस्तस्मिन् । अथवा एवं व्याख्या । शं च सुखं भा दीप्तिः शंभे तयोः अंतः समाप्तिः यत्र तत् संभ्रान्तं यद्भयं तेन विसंस्थुला ये निर्यामकास्तैर्मुक्तव्यापारे इति । किंविशिष्टास्ते ? अविदलितयानपात्राः । न विदलितं न भंगं आपन्नं, भगवत्प्रणाममाहात्म्यात् यानपात्रं येषां ते अविदलितयानपात्राः ॥४-५॥ साम्प्रतं अग्निभयापहारमाहखरपवणुधुअवणदव, जालावलिमिलियसयलदुमगहणे । डझंतमुद्धमियवहूभीसणरवभीसणमि वणे ॥६॥ जगगुरुणो कमजुअलं, निव्वाविअसयलतियणाभो। जे संभरंति मणुआ, न कुणइ जलणो भयं तेसिं ॥७॥ व्याख्याः-'ज्वलनो' वहिस्तेषां भगवत्संस्मरणकारकाणां भयं न करोति, कुत्र स्थाने इत्याह-'वने'अरण्ये, केषां ये मनुष्याः जगद्गुरोः श्रीपार्श्वनाथस्य 'क्रमयुगलं'-चरणकमलद्वयं संस्मरन्ति सम्यक् अनुध्यायन्ति। किंविशिष्टं क्रमयुगलं ? निर्वापितसकलत्रिभुवनाभोग। 'निर्वापितो' नाशं प्रापितः 'सकलः' समस्तः 'त्रिभुवनाभोगः' त्रिजगत्प्रविस्तारप्रपंचो येन तत् नि। तद् अन्येऽपि ये केचन 'क' पानीयं निर्वापितसकलत्रिभुवनाभोगं, सम्यक् भरन्ति पूरयन्ति घटादिभिः, तत्र वह्नौ तत् क्षिपन्ति तेषां ज्वलनो भयं न करोतीत्यर्थः । किंविशिष्टं कं? अयुगलं "युजि समाधौ धातुः" योजनं युक् समाधिः । तथा च हैमे व्याकरणे उदाहरणं युजमापन्ना मुनयः । न युक् अयुक् असमाधिस्तं अलं निवारयति अयुगलं स्वास्थ्यसंपादकमित्यर्थः । किंविशिष्टे वने ? खरपवणु अवणदवजालावलिमिलियसयलदुमगहणं । खरः-प्रचण्डः पवनो-वायुः तेन उद्धृतः इतस्ततो विस्तारितो यो वणदवो-दावानलः तस्य ज्वाला-अर्चिषः तासां आवलिस्तया संमिलितानि सकलानि समस्तानि सर्वजातीयानि 'द्रुमगहनानि' वृक्षकाननानि तानि यस्मिन् तत् खर०। क्वचित् “जालावलिमलिअत्ति" पाठः । तत्र ज्वालावलिभिर्मर्दितानि दह्यमानत्वादिति योज्यं । पुनः किंविशिष्टे वने? 'डज्झंतमुद्धमिअवहूभीसणरवभीसणमि' । दद्यमाणाश्च ता मुग्धा अबलत्वेन अपसरणपरिज्ञानविकला मृगवध्वो हरिण्यस्तासां यो भीषणो For Private And Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59